Vishnu Sahasranama-विष्णु सहस्रनाम
ॐ नमो भगवते
वासुदेवाय नम:
ॐ विश्वं विष्णु:
वषट्कारो भूत-भव्य-भवत-प्रभुः ।
भूत-कृत भूत-भृत
भावो भूतात्मा भूतभावनः ।। 1 ।।
पूतात्मा
परमात्मा च मुक्तानां परमं गतिः।
अव्ययः पुरुष
साक्षी क्षेत्रज्ञो अक्षर एव च ।। 2 ।।
योगो योग-विदां
नेता प्रधान-पुरुषेश्वरः ।
नारसिंह-वपुः
श्रीमान केशवः पुरुषोत्तमः ।। 3 ।।
सर्वः शर्वः शिवः
स्थाणु: भूतादि: निधि: अव्ययः ।
संभवो भावनो
भर्ता प्रभवः प्रभु: ईश्वरः ।। 4 ।।
स्वयंभूः शम्भु:
आदित्यः पुष्कराक्षो महास्वनः ।
अनादि-निधनो धाता
विधाता धातुरुत्तमः ।। 5 ।।
अप्रमेयो
हृषीकेशः पद्मनाभो-अमरप्रभुः ।
विश्वकर्मा
मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ।। 6 ।।
अग्राह्यः
शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतः
त्रिककुब-धाम पवित्रं मंगलं परं ।। 7।।
ईशानः प्राणदः
प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्य-गर्भो
भू-गर्भो माधवो मधुसूदनः ।। 8 ।।
ईश्वरो विक्रमी
धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो
दुराधर्षः कृतज्ञः कृति: आत्मवान ।। 9 ।।
सुरेशः शरणं शर्म
विश्व-रेताः प्रजा-भवः ।
अहः संवत्सरो
व्यालः प्रत्ययः सर्वदर्शनः ।। 10 ।।
अजः सर्वेश्वरः
सिद्धः सिद्धिः सर्वादि: अच्युतः ।
वृषाकपि:
अमेयात्मा सर्व-योग-विनिःसृतः ।। 11 ।।
वसु:वसुमनाः
सत्यः समात्मा संमितः समः ।
अमोघः
पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ।। 12 ।।
रुद्रो बहु-शिरा
बभ्रु: विश्वयोनिः शुचि-श्रवाः ।
अमृतः शाश्वतः
स्थाणु: वरारोहो महातपाः ।। 13 ।।
सर्वगः
सर्वविद्-भानु:विष्वक-सेनो जनार्दनः ।
वेदो
वेदविद-अव्यंगो वेदांगो वेदवित् कविः ।। 14 ।।
लोकाध्यक्षः
सुराध्यक्षो धर्माध्यक्षः कृता-कृतः ।
चतुरात्मा
चतुर्व्यूह:-चतुर्दंष्ट्र:-चतुर्भुजः ।। 15 ।।
भ्राजिष्णु भोजनं
भोक्ता सहिष्णु: जगदादिजः ।
अनघो विजयो जेता
विश्वयोनिः पुनर्वसुः ।। 16 ।।
उपेंद्रो वामनः
प्रांशु: अमोघः शुचि: ऊर्जितः ।
अतींद्रः संग्रहः
सर्गो धृतात्मा नियमो यमः ।। 17 ।।
वेद्यो वैद्यः
सदायोगी वीरहा माधवो मधुः।
अति-इंद्रियो
महामायो महोत्साहो महाबलः ।। 18 ।।
महाबुद्धि: महा-वीर्यो
महा-शक्ति: महा-द्युतिः।
अनिर्देश्य-वपुः
श्रीमान अमेयात्मा महाद्रि-धृक ।। 19 ।।
महेष्वासो
महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः
सुरानंदो गोविंदो गोविदां-पतिः ।। 20 ।।
मरीचि:दमनो हंसः
सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः
सुतपाः पद्मनाभः प्रजापतिः ।। 21 ।।
अमृत्युः
सर्व-दृक् सिंहः सन-धाता संधिमान स्थिरः ।
अजो दुर्मर्षणः
शास्ता विश्रुतात्मा सुरारिहा ।। 22 ।।
गुरुःगुरुतमो
धामः सत्यः सत्य-पराक्रमः ।
निमिषो-अ-निमिषः
स्रग्वी वाचस्पति: उदार-धीः ।। 23 ।।
अग्रणी: ग्रामणीः
श्रीमान न्यायो नेता समीरणः ।
सहस्र-मूर्धा
विश्वात्मा सहस्राक्षः सहस्रपात ।। 24 ।।
आवर्तनो
निवृत्तात्मा संवृतः सं-प्रमर्दनः ।
अहः संवर्तको
वह्निः अनिलो धरणीधरः ।। 25 ।।
सुप्रसादः
प्रसन्नात्मा विश्वधृक्-विश्वभुक्-विभुः ।
सत्कर्ता सकृतः
साधु: जह्नु:-नारायणो नरः ।। 26 ।।
असंख्येयो-अप्रमेयात्मा
विशिष्टः शिष्ट-कृत्-शुचिः ।
सिद्धार्थः
सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ।। 27।।
वृषाही वृषभो
विष्णु: वृषपर्वा वृषोदरः ।
वर्धनो
वर्धमानश्च विविक्तः श्रुति-सागरः ।। 28 ।।
सुभुजो दुर्धरो
वाग्मी महेंद्रो वसुदो वसुः ।
नैक-रूपो
बृहद-रूपः शिपिविष्टः प्रकाशनः ।। 29 ।।
ओज:
तेजो-द्युतिधरः प्रकाश-आत्मा प्रतापनः ।
ऋद्धः
स्पष्टाक्षरो मंत्र:चंद्रांशु: भास्कर-द्युतिः ।। 30 ।।
अमृतांशूद्भवो
भानुः शशबिंदुः सुरेश्वरः ।
औषधं जगतः सेतुः
सत्य-धर्म-पराक्रमः ।। 31 ।।
भूत-भव्य-भवत्-नाथः
पवनः पावनो-अनलः ।
कामहा
कामकृत-कांतः कामः कामप्रदः प्रभुः ।। 32 ।।
युगादि-कृत
युगावर्तो नैकमायो महाशनः ।
अदृश्यो
व्यक्तरूपश्च सहस्रजित्-अनंतजित ।। 33 ।।
इष्टो विशिष्टः
शिष्टेष्टः शिखंडी नहुषो वृषः ।
क्रोधहा क्रोधकृत
कर्ता विश्वबाहु: महीधरः ।। 34 ।।
अच्युतः प्रथितः
प्राणः प्राणदो वासवानुजः ।
अपाम
निधिरधिष्टानम् अप्रमत्तः प्रतिष्ठितः ।। 35 ।।
स्कन्दः
स्कन्द-धरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद
भानु: आदिदेवः पुरंदरः ।। 36 ।।
अशोक: तारण: तारः
शूरः शौरि: जनेश्वर: ।
अनुकूलः शतावर्तः
पद्मी पद्मनिभेक्षणः ।। 37 ।।
पद्मनाभो-अरविंदाक्षः
पद्मगर्भः शरीरभृत ।
महर्धि-ऋद्धो
वृद्धात्मा महाक्षो गरुड़ध्वजः ।। 38 ।।
अतुलः शरभो भीमः
समयज्ञो हविर्हरिः ।
सर्वलक्षण
लक्षण्यो लक्ष्मीवान समितिंजयः ।। 39 ।।
विक्षरो रोहितो
मार्गो हेतु: दामोदरः सहः ।
महीधरो महाभागो
वेगवान-अमिताशनः ।। 40 ।।
उद्भवः क्षोभणो
देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता
विकर्ता गहनो गुहः ।। 41 ।।
व्यवसायो
व्यवस्थानः संस्थानः स्थानदो-ध्रुवः ।
परर्रद्वि
परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ।। 42 ।।
रामो विरामो
विरजो मार्गो नेयो नयो-अनयः ।
वीरः शक्तिमतां
श्रेष्ठ: धर्मो धर्मविदुत्तमः ।। 43 ।।
वैकुंठः पुरुषः
प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः
शत्रुघ्नो व्याप्तो वायुरधोक्षजः ।। 44।।
ऋतुः सुदर्शनः
कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो
दक्षो विश्रामो विश्व-दक्षिणः ।। 45 ।।
विस्तारः स्थावर:
स्थाणुः प्रमाणं बीजमव्ययम ।
अर्थो अनर्थो
महाकोशो महाभोगो महाधनः ।। 46 ।।
अनिर्विण्णः
स्थविष्ठो-अभूर्धर्म-यूपो महा-मखः ।
नक्षत्रनेमि:
नक्षत्री क्षमः क्षामः समीहनः ।। 47 ।।
यज्ञ इज्यो
महेज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी
विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमं ।। 48 ।।
सुव्रतः सुमुखः
सूक्ष्मः सुघोषः सुखदः सुहृत ।
मनोहरो
जित-क्रोधो वीरबाहुर्विदारणः ।। 49 ।।
स्वापनः स्ववशो
व्यापी नैकात्मा नैककर्मकृत ।
वत्सरो वत्सलो
वत्सी रत्नगर्भो धनेश्वरः ।। 50 ।।
धर्मगुब धर्मकृद धर्मी सदसत्क्षरं-अक्षरं ।
अविज्ञाता
सहस्त्रांशु: विधाता कृतलक्षणः ।। 51 ।।
गभस्तिनेमिः
सत्त्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो
देवेशो देवभृद गुरुः ।। 52 ।।
उत्तरो
गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीर
भूतभृद्भोक्ता कपींद्रो भूरिदक्षिणः ।। 53 ।।
सोमपो-अमृतपः
सोमः पुरुजित पुरुसत्तमः ।
विनयो जयः
सत्यसंधो दाशार्हः सात्वतां पतिः ।। 54 ।।
जीवो
विनयिता-साक्षी मुकुंदो-अमितविक्रमः ।
अम्भोनिधिरनंतात्मा
महोदधिशयो-अंतकः ।। 55 ।।
अजो महार्हः
स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनंदो नंदनो नंदः
सत्यधर्मा त्रिविक्रमः ।। 56 ।।
महर्षिः
कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो
महाश्रृंगः कृतांतकृत ।। 57 ।।
महावराहो गोविंदः
सुषेणः कनकांगदी ।
गुह्यो गंभीरो
गहनो गुप्तश्चक्र-गदाधरः ।। 58 ।।
वेधाः
स्वांगोऽजितः कृष्णो दृढः संकर्षणो-अच्युतः ।
वरूणो वारुणो
वृक्षः पुष्कराक्षो महामनाः ।। 59 ।।
भगवान भगहानंदी
वनमाली हलायुधः ।
आदित्यो
ज्योतिरादित्यः सहिष्णु:-गतिसत्तमः ।। 60 ।।
सुधन्वा
खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिवि:स्पृक्
सर्वदृक व्यासो वाचस्पति:अयोनिजः ।। 61 ।।
त्रिसामा सामगः
साम निर्वाणं भेषजं भिषक ।
संन्यासकृत्-छमः
शांतो निष्ठा शांतिः परायणम ।। 62 ।।
शुभांगः शांतिदः
स्रष्टा कुमुदः कुवलेशयः ।
गोहितो
गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ।। 63 ।।
अनिवर्ती
निवृत्तात्मा संक्षेप्ता क्षेमकृत्-शिवः ।
श्रीवत्सवक्षाः
श्रीवासः श्रीपतिः श्रीमतां वरः ।। 64 ।।
श्रीदः श्रीशः
श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः
श्रेयः श्रीमान्-लोकत्रयाश्रयः ।। 65 ।।
स्वक्षः स्वंगः
शतानंदो नंदिर्ज्योतिर्गणेश्वर: ।
विजितात्मा
विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ।। 66 ।।
उदीर्णः
सर्वत:चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो
भूतिर्विशोकः शोकनाशनः ।। 67 ।।
अर्चिष्मानर्चितः
कुंभो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः
प्रद्युम्नोऽमितविक्रमः ।। 68 ।।
कालनेमिनिहा वीरः
शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा
त्रिलोकेशः केशवः केशिहा हरिः ।। 69 ।।
कामदेवः कामपालः
कामी कांतः कृतागमः ।
अनिर्देश्यवपुर्विष्णु:
वीरोअनंतो धनंजयः ।। 70 ।।
ब्रह्मण्यो
ब्रह्मकृत् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद
ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ।। 71 ।।
महाक्रमो
महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा
महायज्ञो महाहविः ।। 72 ।।
स्तव्यः
स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता
पुण्यः पुण्यकीर्तिरनामयः ।। 73 ।।
मनोजवस्तीर्थकरो
वसुरेता वसुप्रदः ।
वसुप्रदो
वासुदेवो वसुर्वसुमना हविः ।। 74 ।।
सद्गतिः सकृतिः
सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो
यदुश्रेष्ठः सन्निवासः सुयामुनः ।। 75 ।।
भूतावासो
वासुदेवः सर्वासुनिलयो-अनलः ।
दर्पहा दर्पदो
दृप्तो दुर्धरो-अथापराजितः ।। 76 ।।
विश्वमूर्तिमहार्मूर्ति:दीप्तमूर्ति:
अमूर्तिमान ।
अनेकमूर्तिरव्यक्तः
शतमूर्तिः शताननः ।। 77 ।।
एको नैकः सवः कः
किं यत-तत-पद्मनुत्तमम ।
लोकबंधु: लोकनाथो
माधवो भक्तवत्सलः ।। 78 ।।
सुवर्णोवर्णो
हेमांगो वरांग: चंदनांगदी ।
वीरहा विषमः
शून्यो घृताशीरऽचलश्चलः ।। 79 ।।
अमानी मानदो
मान्यो लोकस्वामी त्रिलोकधृक ।
सुमेधा मेधजो
धन्यः सत्यमेधा धराधरः ।। 80 ।।
तेजोवृषो
द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो
व्यग्रो नैकश्रृंगो गदाग्रजः ।। 81 ।।
चतुर्मूर्ति:
चतुर्बाहु:श्चतुर्व्यूह:चतुर्गतिः ।
चतुरात्मा
चतुर्भाव:चतुर्वेदविदेकपात ।। 82 ।।
समावर्तो-अनिवृत्तात्मा
दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो
दुर्गो दुरावासो दुरारिहा ।। 83 ।।
शुभांगो
लोकसारंगः सुतंतुस्तंतुवर्धनः ।
इंद्रकर्मा
महाकर्मा कृतकर्मा कृतागमः ।। 84 ।।
उद्भवः सुंदरः
सुंदो रत्ननाभः सुलोचनः ।
अर्को वाजसनः
श्रृंगी जयंतः सर्वविज-जयी ।। 85 ।।
सुवर्णबिंदुरक्षोभ्यः
सर्ववागीश्वरेश्वरः ।
महाह्रदो
महागर्तो महाभूतो महानिधः ।। 86 ।।
कुमुदः कुंदरः
कुंदः पर्जन्यः पावनो-अनिलः ।
अमृतांशो-अमृतवपुः
सर्वज्ञः सर्वतोमुखः ।। 87 ।।
सुलभः सुव्रतः
सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधो
औदुंबरो-अश्वत्थ:चाणूरांध्रनिषूदनः ।। 88 ।।
सहस्रार्चिः
सप्तजिव्हः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघो-अचिंत्यो
भयकृत्-भयनाशनः ।। 89 ।।
अणु:बृहत कृशः
स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः
स्वास्यः प्राग्वंशो वंशवर्धनः ।। 90 ।।
भारभृत्-कथितो
योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः
क्षामः सुपर्णो वायुवाहनः ।। 91 ।।
धनुर्धरो
धनुर्वेदो दंडो दमयिता दमः ।
अपराजितः सर्वसहो
नियंता नियमो यमः ।। 92 ।।
सत्त्ववान
सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः
प्रियार्हो-अर्हः प्रियकृत-प्रीतिवर्धनः ।। 93 ।।
विहायसगतिर्ज्योतिः
सुरुचिर्हुतभुग विभुः ।
रविर्विरोचनः
सूर्यः सविता रविलोचनः ।। 94 ।।
अनंतो
हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः
सदामर्षी लोकधिष्ठानमद्भुतः ।। 95।।
सनात्-सनातनतमः
कपिलः कपिरव्ययः ।
स्वस्तिदः
स्वस्तिकृत स्वस्ति स्वस्तिभुक स्वस्तिदक्षिणः ।। 96 ।।
अरौद्रः कुंडली
चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः
शब्दसहः शिशिरः शर्वरीकरः ।। 97 ।।
अक्रूरः पेशलो
दक्षो दक्षिणः क्षमिणां वरः ।
विद्वत्तमो
वीतभयः पुण्यश्रवणकीर्तनः ।। 98 ।।
उत्तारणो
दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः
संतो जीवनः पर्यवस्थितः ।। 99 ।।
अनंतरूपो-अनंतश्री:
जितमन्यु: भयापहः ।
चतुरश्रो
गंभीरात्मा विदिशो व्यादिशो दिशः ।। 100 ।।
अनादिर्भूर्भुवो
लक्ष्मी: सुवीरो रुचिरांगदः ।
जननो जनजन्मादि:
भीमो भीमपराक्रमः ।। 101 ।।
आधारनिलयो-धाता
पुष्पहासः प्रजागरः ।
ऊर्ध्वगः
सत्पथाचारः प्राणदः प्रणवः पणः ।। 102 ।।
प्रमाणं
प्राणनिलयः प्राणभृत प्राणजीवनः ।
तत्त्वं
तत्त्वविदेकात्मा जन्ममृत्यु जरातिगः ।। 103 ।।
भूर्भवः
स्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो
यज्ञपतिर्यज्वा यज्ञांगो यज्ञवाहनः ।। 104 ।।
यज्ञभृत्-यज्ञकृत्-यज्ञी
यज्ञभुक्-यज्ञसाधनः ।
यज्ञान्तकृत-यज्ञगुह्यमन्नमन्नाद
एव च ।। 105 ।।
आत्मयोनिः
स्वयंजातो वैखानः सामगायनः ।
देवकीनंदनः
स्रष्टा क्षितीशः पापनाशनः ।। 106 ।।
शंखभृन्नंदकी
चक्री शार्ङ्गधन्वा गदाधरः ।
रथांगपाणिरक्षोभ्यः
सर्वप्रहरणायुधः ।। 107 ।।
सर्वप्रहरणायुध ॐ
नमः इति।
वनमालि गदी
शार्ङ्गी शंखी चक्री च नंदकी ।
श्रीमान् नारायणो
विष्णु: वासुदेवोअभिरक्षतु ।> >
0 Comments
I am always there with you hari om