Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

saraswati stotram - श्री सरस्वती स्तोत्र

saraswati stotram - श्री सरस्वती स्तोत्र 

saraswati stotram lyrics;श्री सरस्वती स्तोत्र;saraswati stotram telugu




विनियोगः


श्री महालक्ष्मी ह्रदय स्तवः|
ॐ अस्य श्रीसरस्वतीस्तोत्रमंत्रस्य ब्रह्माऋषिः गायत्री छन्दः श्रीसरस्वती देवता धर्मार्थकाममोक्षार्थे जपे विनियोगः।

आरूढ़ा श्वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं
वामे हस्ते च दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्या |
सा वीणां वादयन्ती स्वकरकरजपैः शास्त्रविज्ञानशब्दैः
क्रीडन्ति दिव्यरूपा करकमलधरा भारती सुप्रसन्ना || ||

श्वेतपद्मासना देवी श्वेतगन्धानुलेपना |
अर्चिता मुनिभिः सर्वैः ऋर्षिभिः स्तूयते सदा।
एवं ध्यात्वा सदा देवीं वाञ्छितं लभते नरः॥२॥

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनी
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम्।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ ३॥
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।
या ब्रह्माच्युतशङ्करप्रभूतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥४॥

ह्रीं ह्रीं ह्ययैकबीजे शशिरुचिकमले कल्पविस्पष्टशोभे
भव्ये भव्यानुकूले कुमतिवनदवे विश्ववन्द्यांघ्रिपद्मे ।
पद्म पद्मोपविष्टे प्रणतजनमनोमोदसम्पादयितत्रि
प्रोत्फुल्लज्ञानकुटे हरिनिजदयिते देवि संसारसारे ॥५॥

ऐं ऐं ऐं दृष्टमन्त्रे कमलभवमुखाम्भोजभूतस्वरूपे
रुपारुपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे।
न स्थूले नैव सुक्ष्मेऽप्यविदितविभवे नापि विज्ञानतत्वे
विश्वे विश्वान्तरात्मे सुरवर निमिते निष्कले नित्यशुद्धे || ||

ह्रीं ह्रीं ह्रीं जाप्यतुष्टे हिमरुचिमुकुटे वल्लकीव्यग्रहस्ते
मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशास्ताम् ।
विद्ये वेदान्तवेद्य परिणतपठिते मोक्षदे मुक्तिमार्गे
मार्गातीतस्वरूपे भव मम वरदा शारदे शुभहारे || ||

धीं धीं धीं धारणाख्ये धृतिमतिनतिभिर्नामभिः कीर्तनीये
नित्येऽनित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे।
पुण्ये पुण्यप्रवाहे हरिहरनमिते नित्यशुद्धे सुवर्णे
मातर्मात्रार्धतत्वे मतिमति मतिदे माधवप्रीतिमोदे ||||

हूं हूं हूं स्वस्वरूपे दह दह दुरितं पुस्तकग्रव्यहस्ते
सन्तुष्टाकारचित्ते स्मितमुखि सुभगे जृम्भिणि स्तम्भविद्ये ।
मोहे मुग्धप्रवाहे कुरु मम विमतिध्वान्तविध्वंसमीडे
गीर्गीर्वाग्भारति त्वं कविवररसनासिद्धिदे सिद्धिसाध्ये ||||

स्तौमि त्वां त्वां च वन्दे मम खलु रसनां नो कदाचित्त्यजेथा
माँ में बुद्धिर्विरुद्धा भवतु न च मनो देवि में यातु पापम् |
माँ में दुःखं कदाचित्क्वचिदपि विषयेऽप्यस्तु में नाकुलत्वं
शास्त्रे वादे कवित्वं प्रसरतु मम धीर्मास्तु कुण्ठा कदापि || १०||

इत्येतैः श्लोकमुख्यैः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो
वाणी वाचस्पतेरप्यविदितविभवो वाक्पटुर्मुष्टकण्ठः |
सःस्यादिष्टाद्यर्थलाभैः सुतमिव सततं पातितं सा च देवीं
सौभाग्यं तस्य लोके प्रभवति कविता विघ्नमस्तं व्रयाति || ११ ||

निर्विघ्नं तस्य विद्या प्रभवति सततं चाश्रुतग्रन्थबोधः
कीर्तिस्त्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात् |
दीर्घायुलॊकपूज्यः सकलगुणनिधिः सन्ततं राजमान्यो
वाग्देव्याः सम्प्रसादात्रिजगति विजयी जायते सत्सभाषु || १२ ||


ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिषः।
सारस्वतो जनः पाठात्सकृदिष्टार्थलाभवान् || १३ ||

पक्षद्वये त्रयोदश्यामेकवविंशति संख्यया |
अविच्छिन्नः पठेद्धीमान्ध्यात्वा देवी सरस्वतीम् || १४ ||

सर्वपापविनिर्मुक्तः सुभगो लोकविश्रुतः |
वाञ्छितं फलमाप्नोति लोकेऽस्मिन्नात्र संशयः ||१५||

ब्रह्मणेति स्वयं प्रोक्तं सरस्वत्याः स्तवं शुभम् ।
प्रयत्नेन पठेन्नित्यं सोऽमृतत्वाय कल्पते || १६ ||
॥ इति श्रीमदब्रह्मणा विरचितं सरस्वतीस्तोत्रं सम्पूर्णं ||






Post a Comment

0 Comments