Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Kali Kavacham -काली कवचम

 Kali Kavacham -काली कवचम 



कालीकवचम्

 नारद उवाच 

कवचं श्रोतुमिच्छामि तां च विद्यां दशाक्षरीम् I 

नाथ त्वत्तो हि सर्वज्ञ भद्रकाल्याश्च सांप्रतम् II 1 II 

नारायण उवाच 

श्रुणु नारद वक्ष्यामि महाविद्यां दशाक्षरीम् I 

गोपनीयं च कवचं त्रिषु लोकेषु दुर्लभम् II २ II

 ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहेति च दशाक्षरीम् I 

दुर्वासा हि ददौ राज्ञे पुष्करे सुर्यपर्वणि II ३ II 

दशलक्षजपेनैव मन्त्रसिद्धिः कृता पुरा I

 पञ्चलक्षजपेनैव पठन् कवचमुत्तमम् II ४ II

 बभूव सिद्धकवचोSप्ययोध्यामाजगाम सः I 

कृत्स्रां हि पृथिवीं जिग्ये कवचस्य प्रसादतः II ५ II 

नारद उवाच 

श्रुता दशाक्षरी विद्या त्रिषु लोकेषु दुर्लभा I 

अधुना श्रोतुमिच्छामि कवचं ब्रुहि मे प्रभो II ६ II 

नारायण उवाच

 श्रुणु वक्ष्यामि विप्रेन्द्र कवचं परामाद्भुतम् I

 नारायणेन यद् दत्तं कृपया शूलिने पुरा II ७ II

 त्रिपुरस्य वधे घोरे शिवस्य विजयाय च I 

तदेव शूलिना दत्तं पुरा दुर्वाससे मुने II ८ II

 दुर्वाससा च यद् दत्तं सुचन्द्राय महात्मने I

 अतिगुह्यतरं तत्त्वं सर्वमन्त्रौघविग्रहम् II ९ II

 ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहा मे पातु मस्तकम् I

 क्लीं कपालं सदा पातु ह्रीं ह्रीं ह्रींमिति लोचने II १० II 

ॐ ह्रीं त्रिलोचने स्वाहा नासिकां मे सदावतु I

 क्लीं कालिके रक्ष रक्ष स्वाहा दन्तं सदावतु II ११ II 

ह्रीं भद्रकालिके स्वाहा पातु मेsधरयुग्मकम् I

 ॐ ह्रीं ह्रीं क्लीं कालिकायै स्वाहा कण्ठं सदावतु II १२ II

 ॐ ह्रीं कालिकायै स्वाहा कर्णयुग्मं सदावतु I

 ॐ क्रीं क्रीं क्लीं काल्यै स्वाहा स्कन्धं पातु सदा मम II १३ II

 ॐ क्रीं भद्रकाल्यै स्वाहा मम वक्षः सदावतु I 

ॐ क्रीं कालिकायै स्वाहा मम नाभिं सदावतु II १४ II

 ॐ ह्रीं कालिकायै स्वाहा मम पृष्टं सदावतु I

 रक्तबीजविनाशिन्यै स्वाहा हस्तौ सदावतु II १५ II

 ॐ ह्रीं क्लीं मुण्डमालिन्यै स्वाहा पादौ सदावतु I 

ॐ ह्रीं चामुण्डायै स्वाहा सर्वाङ्गं मे सदावतु II १६ II 

प्राच्यां पातु महाकाली आग्नेय्यां रक्तदन्तिका I

 दक्षिणे पातु चामुण्डा नैऋत्यां पातु कालिका II १७ II

 श्यामा च वारुणे पातु वायव्यां पातु चण्डिका I 

उत्तरे विकटास्या च ऐशान्यां साट्टहासिनि II १८ II

 ऊर्ध्वं पातु लोलजिह्वा मायाद्या पात्वधः सदा I

 जले स्थले चान्तरिक्षे पातु विश्वप्रसूः सदा II १९ II

 इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् I

 सर्वेषां कवचानां च सारभूतं परात्परम् II २० II 

सप्तद्वीपेश्वरो राजा सुचन्द्रोSस्य प्रसादतः I

 कवचस्य प्रसादेन मान्धाता पृथिवीपतिः II २१ II

 प्रचेता लोमशश्चैव यतः सिद्धो बभूव ह I

 यतो हि योगिनां श्रेष्टः सौभरिः पिप्पलायनः II २२ II

 यदि स्यात् सिद्धकवचः सर्वसिद्धीश्वरो भवेत् I

 महादानान


Post a Comment

0 Comments