Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Shri Durga Nakshatra Malika Stuti- श्री दुर्गा नक्षत्र मालिका स्तुति

Shri Durga Nakshatra Malika Stuti- श्री दुर्गा नक्षत्र मालिका स्तुति



विराटनगरं रम्यं गच्छमानो युधिष्ठिरः ।

अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ 1 ॥


यशोदागर्भसंभूतां नारायणवरप्रियाम् ।

नंदगोपकुलेजातां मंगल्यां कुलवर्धनीम् ॥ 2 ॥


कंसविद्रावणकरीं असुराणां क्षयंकरीम् ।

शिलातटविनिक्षिप्तां आकाशं प्रतिगामिनीम् ॥ 3 ॥


वासुदेवस्य भगिनीं दिव्यमाल्य विभूषिताम् ।

दिव्यांबरधरां देवीं खड्गखेटकधारिणीम् ॥ 4 ॥


भारावतरणे पुण्ये ये स्मरंति सदाशिवाम् ।

तान्वै तारयते पापात् पंकेगामिव दुर्बलाम् ॥ 5 ॥


स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः ।

आमंत्र्य दर्शनाकांक्षी राजा देवीं सहानुजः ॥ 6 ॥


नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि ।

बालार्क सदृशाकारे पूर्णचंद्रनिभानने ॥ 7 ॥


चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे ।

मयूरपिंछवलये केयूरांगदधारिणि ॥ 8 ॥


भासि देवि यदा पद्मा नारायणपरिग्रहः ।

स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥ 9 ॥


कृष्णच्छविसमा कृष्णा संकर्षणसमानना ।

बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ ॥ 10 ॥


पात्री च पंकजी कंठी स्त्री विशुद्धा च या भुवि ।

पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥ 11 ॥


कुंडलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता ।

चंद्रविस्पार्धिना देवि मुखेन त्वं विराजसे ॥ 12 ॥


मुकुटेन विचित्रेण केशबंधेन शोभिना ।

भुजंगाऽभोगवासेन श्रोणिसूत्रेण राजता ॥ 13 ॥


भ्राजसे चावबद्धेन भोगेनेवेह मंदरः ।

ध्वजेन शिखिपिंछानां उच्छ्रितेन विराजसे ॥ 14 ॥


कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया ।

तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥ 15 ॥


त्रैलोक्य रक्षणार्थाय महिषासुरनाशिनि ।

प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥ 16 ॥


जया त्वं विजया चैव संग्रामे च जयप्रदा ।

ममाऽपि विजयं देहि वरदा त्वं च सांप्रतम् ॥ 17 ॥


विंध्ये चैव नगश्रेष्टे तव स्थानं हि शाश्वतम् ।

कालि कालि महाकालि सीधुमांस पशुप्रिये ॥ 18 ॥


कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणि ।

भारावतारे ये च त्वां संस्मरिष्यंति मानवाः ॥ 19 ॥


प्रणमंति च ये त्वां हि प्रभाते तु नरा भुवि ।

न तेषां दुर्लभं किंचित् पुत्रतो धनतोऽपि वा ॥ 20 ॥


दुर्गात्तारयसे दुर्गे तत्वं दुर्गा स्मृता जनैः ।

कांतारेष्ववपन्नानां मग्नानां च महार्णवे ॥ 21 ॥

(दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम)


जलप्रतरणे चैव कांतारेष्वटवीषु च ।

ये स्मरंति महादेवीं न च सीदंति ते नराः ॥ 22 ॥


त्वं कीर्तिः श्रीर्धृतिः सिद्धिः ह्रीर्विद्या संततिर्मतिः ।

संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कांतिः क्षमा दया ॥ 23 ॥


नृणां च बंधनं मोहं पुत्रनाशं धनक्षयम् ।

व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ॥ 24 ॥


सोऽहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् ।

प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ॥ 25 ॥


त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः ।

शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ॥ 26 ॥


एवं स्तुता हि सा देवी दर्शयामास पांडवम् ।

उपगम्य तु राजानमिदं वचनमब्रवीत् ॥ 27 ॥


शृणु राजन् महाबाहो मदीयं वचनं प्रभो ।

भविष्यत्यचिरादेव संग्रामे विजयस्तव ॥ 28 ॥


मम प्रसादान्निर्जित्य हत्वा कौरव वाहिनीम् ।

राज्यं निष्कंटकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥ 29 ॥


भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम् ।

मत्प्रसादाच्च ते सौख्यं आरोग्यं च भविष्यति ॥ 30 ॥


ये च संकीर्तयिष्यंति लोके विगतकल्मषाः ।

तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुस्सुतम् ॥ 31 ॥


प्रवासे नगरे चापि संग्रामे शत्रुसंकटे ।

अटव्यां दुर्गकांतारे सागरे गहने गिरौ ॥ 32 ॥


ये स्मरिष्यंति मां राजन् यथाहं भवता स्मृता ।

न तेषां दुर्लभं किंचिदस्मिन् लोके भविष्यति ॥ 33 ॥


य इदं परमस्तोत्रं भक्त्या शृणुयाद्वा पठेत वा ।

तस्य सर्वाणि कार्याणि सिध्धिं यास्यंति पांडवाः ॥ 34 ॥


मत्प्रसादाच्च वस्सर्वान् विराटनगरे स्थितान् ।

न प्रज्ञास्यंति कुरवः नरा वा तन्निवासिनः ॥ 35 ॥


इत्युक्त्वा वरदा देवी युधिष्ठिरमरिंदमम् ।

रक्षां कृत्वा च पांडूनां तत्रैवांतरधीयत ॥ 38 ॥

Post a Comment

0 Comments