Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Akhilandeshvari Stotram-अखिलाण्डेश्वरीस्तोत्रम्

 Akhilandeshvari Stotram-अखिलाण्डेश्वरीस्तोत्रम् 





ओङ्कारार्णवमध्यगे त्रिपथगे ओङ्कारबीजात्मिके

      ओङ्कारेण सुखप्रदे शुभकरे ओकारबिन्दुप्रिये ।

ओङ्कारे जगदम्बिके शशिकले ओङ्कारपीठस्थिते

      दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ १॥


ह्रीङ्कारार्णववर्णमध्यनिलये ह्रीङ्कारवर्णात्मिके ।

      ह्रीङ्काराब्धिसुचारुचान्द्रकधरे ह्रीङ्कारनादप्रिये ।

ह्रीङ्कारे त्रिपुरेश्वरी सुचरिते ह्रीङ्कारपीठस्थिते

      दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ २॥


श्रीचक्राङ्कितभूषणोज्ज्वलमुखे श्रीराजराजेश्वरि

      श्रीकण्ठार्धशरीरभागनिलये श्रीजम्बुनाथप्रिये ।

श्रीकान्तस्य सहोदरे सुमनसे श्रीबिन्दुपीठप्रिये

      दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ३॥


कस्तूरीतिलकोज्ज्वले कलिहरे क्लीङ्कारबीजात्मिके-

      कल्याणो जगदीश्वरी भगवती कादम्बवासप्रिये ।

कामाक्षी सकलेश्वरी शुभकरे क्लीङ्कारपीठस्थिते

      दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ४॥


नादे नारदतुम्बुरादिविनुते नारायणी मङ्गले

      नानालङ्कृतहारनूपुरधरे नासामणीभासुरे ।

नानाभक्तसुपूज्यपादकमले नागारिमध्यस्थले

      दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ५॥


श्यामाङ्गी शरदिन्दुकोटिवदने सिद्धान्तमार्गप्रिये

      शान्ते शारदविग्रहे शुभकरे शास्त्रादिषड्दर्शने ।

शर्वाणी परमात्मिके परशिवे प्रत्यक्षसिद्धिप्रदे

      दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ६॥


माङ्गल्ये मधुरप्रिये मधुमती माङ्गल्यसूत्रोज्ज्वले

      माहात्म्यश्रवणे सुते सुतमयी माहेश्वरी चिन्मयि ।

मान्धा(ता)( तृ)प्रमुखादिपूजितपदे मन्त्रा(र्ध)(र्थ) सिद्धिप्रदे

      दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ७॥


तत्त्वे तत्त्वमयी परात्परमयि ज्योतिर्मयी चिन्मयि

      नादे नादमयी सदाशिवमयी तत्त्वार्थसारामयि ( त्मिके) ।

शब्दब्रह्ममयी चराचरमयी वेदान्तरूपात्मिके

      दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ८॥


कदम्बवृक्षमूले त्वं वासिनि शुभधारिणि ।

धरधरसुते देवि मङ्गलं कुरु शङ्करि ॥ ९॥


ध्यात्वा त्वां देवि दशकं ये पठन्ति भृगोर्दिने ।

तेषां च धनमायुष्यमारोग्यं पुत्रसम्पदः ॥ १८॥


इति श्री अखिलाण्डेश्वरीस्तोत्रं सम्पूर्णम् ।




Post a Comment

0 Comments