Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Anasuya Stotram- अनसूयास्तोत्रम्

 Anasuya Stotram- अनसूयास्तोत्रम् 



%५१

पतिव्रताशिरोरत्नभूता सुदंरविग्रहा ।

सुचरित्रा दिव्यतेजा सर्वलोकनमस्कृतः ॥ १॥


विष्णुप्रपौत्री कपौत्री सती कर्दमपुत्रिका ।

देवहूतिसमुत्पन्ना सुमुखी कपिलस्वसा ॥ २॥


अत्रिपत्नी महाभागा दयाक्षान्त्यादिभूषिता ।

अनसूया वेदगेया निजधर्मजिताखिला ॥ ३॥


श्रीदत्तात्रेयजननी चन्द्रमाता मनस्विनी ।

दुर्वासोजनयित्रीशा जगत्सङ्कटवारिणी ॥ ४॥


चतुर्विंशतिनामानि मङ्गलानि पराणि च ।

पावन्यान्यनुसूयाया दत्तमातुः पठेन्नरः ॥ ५॥


त्रिकालमेककालं वा श्रद्धाभक्तिसमन्वितः ।

तस्य धर्मे रुचिर्दत्ते भक्तिमुक्ति क्रमाद्भवेत् ॥ ६॥


इति श्रीवासुदेवानन्दसरस्वतीविरचितं अनसूयास्तोत्रं सम्पूर्णम् ।



Post a Comment

0 Comments