Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Ardha NarIshvara Sahasranama stotram- अर्धनारीश्वरसहस्रनामस्तोत्रम्

 Ardha NarIshvara Sahasranama stotram- अर्धनारीश्वरसहस्रनामस्तोत्रम्



ॐ । अखण्डमण्डलाकारश्चाखिलाण्डैकनायिका ।
अमरेन्द्रार्चितपदश्चामरारिनिषूदिनी ॥ १॥

अनादिनिधनोऽनन्तकोटिसूर्यसमप्रभा ।
अनन्तोऽनन्तभूतेशी चाजितोऽमितविक्रमा ॥ २॥

अविनाशपदस्थेमा चावाङ्मनसगोचरा ।
अनन्तकोटिकल्याणगुणोऽनन्तगुणाश्रया ॥ ३॥

अघहा चाघसंहर्त्री चावेद्योऽदितिवन्दिता ।
अपवर्गप्रदाता चैवाखिलाभीष्टदायिनी ॥ ४॥

आदिमध्यान्तरहित आदित्यायुतभासुरा ।
आगमाभ्यर्चितपद आम्नायार्थविलासिनी ॥ ५॥

आखण्डलमुखस्तुत्य आत्मानन्दविधायिनी ।
आशापालसमाराध्य आधिव्याधिविनाशिनी ॥ ६॥

आपदद्रीन्द्रदम्भोलिरापन्नार्तिप्रभञ्जना ।
आदित्यमण्डलान्तःस्थ आदिशक्तिस्वरूपिणी ॥ ७॥

आशावराम्बरधर आशान्तैश्वर्यदायिनी ।
आनन्दलहरीपूर्ण आनन्दोल्लासशालिनी ॥ ८॥

आचान्तदुरितस्तोम आधाराधेयरूपिणी ।
आध्यात्मिकाधिशमन आगोवृन्दनिवारिणी ॥ ९॥

इन्दिरापतिपूज्याङ्घ्रिरिन्द्रादिस्तुतवैभवा ।
इभचर्माम्बरधर इभकुम्भनिभस्तनी ॥ १०॥

इभवक्त्रमहासेनजनकश्चेष्टदायिनी ।
इष्टिघ्न इष्टिकर्त्री चैवेयत्तातीतविक्रमः ॥ ११॥

इच्छाज्ञानक्रियाशक्तिरिच्छाकलितविग्रहः ।
इन्दिरा भारती दत्तहस्तयुग्मोल्लसत्करा ॥ १२॥

इन्द्रयज्ञसुखाराध्य इडापिङ्गलमध्यगा ।
इहामुत्रसुखाराध्य इन्दुबिम्बसमानना ॥ १३॥

इनेन्दुवह्निनयन इन्दुचूडकुटुम्बिनी ।
इन्द्रियादिगुणातीत इन्द्राणीस्तुतिमोदिता ॥ १४॥

ईषत्स्मितमुखाम्भोज ईश्वरार्धशरीरिणी ।
ईश्वरश्चेशवनिता ईड्य ईशित्वसिद्धिदा ॥ १५॥

ईशानादिब्रह्मरूप ईहाधिकफलप्रदा ।
ईकारार्थरहस्यज्ञ ईकारार्थस्वरूपिणी ॥ १६॥

ईतिबाधाप्रशमन ईशमायाविलासिनी ।
ईड्यस्तयेशजीवातुरीषणात्यक्तचेतनः ॥ १७॥

तथेदृगित्यसंवेधा ईषणोर्जितदानवः ।
ईशित्री चेप्सितकर ईश्वरत्वविधायिनी ॥ १८॥

उक्षेन्द्रवाहनारूढ उत्पत्तिलयवर्जिता ।
उन्नतैश्वर्यसम्पन्न उत्सेधपददायिनी ॥ १९॥

उषापतिसमाराध्य उषाकोटिसमर्चिता ।
उषर्बुधाक्षिनिर्दग्धानङ्गश्चोरुपराक्रमा ॥ २०॥

उग्र उग्रप्रतापा चैवोमापतिरुदारधीः ।
उद्यद्भानुप्रतीकाश उन्नतस्तनमण्डला ॥ २१॥

उग्रदानवसंहर्ता चोत्सवप्रियमानसा ।
उष्णिक्छन्दःस्वरूपाढ्यश्चोरगाद्रिनिवासिनी ॥ २२॥

उदग्रश्रीरुपनिषदुद्यानचरकोकिला ।
ऊर्वशीगीतसन्तुष्ट उर्ध्वाम्नायनिवासिनी ॥ २३॥

ऊर्ध्वरेता ऊर्ध्वगतिरूनाधिकविवर्जितः ।
ऊर्ध्वाण्डजन्मधरिणी ऊर्जिताखिलशत्रुकः ॥ २४॥

ऊष्माग्निकणसन्तप्तदिनेशाग्नीन्दुफालका ।
ऊचिरूचिष्मतीचोर्म्या ऊरुदेशान्तमार्दवा ॥ २५॥

ऊरव्योत्तमवेषश्च ऊर्ध्वयोगातिगामिनी ।
ऊनवाच्य ऊनसाम्या ऊर्ध्वताण्डवपण्डितः ॥ २६॥

ऊर्ध्वलास्यसहाया च ऊरीकृतसमस्तदः ।
ऊर्जस्वन्मणिमालाढ्या ऋग्यजुःसामगायनः ॥ २७॥

ऋभुक्षास्तुतपादाब्जा ऋषिपत्नीसमर्चितः ।
ऋषिराजर्षिसंसेव्या ऋषिरृणविमोचिनी ॥ २८॥

ऋग्यजुःसामसारज्ञः ऋचां प्राचीति सन्नुता ।
रुद्राक्षमालिकाभूषो रुद्राणीकोटिसेविता ॥ २९॥

रुद्रकोटिजितामित्रः ऋतुशोणाम्बरावृता ।
ऋतुलक्ष्मीसहस्रेश ऋक्षराजसमानना ॥ ३०॥

ऋणत्रयविमुक्तश्च ऋणपातकनाशिनी ।
ऋगादिवेदविनुतः ऋग्वेदार्यस्वरूपिणी ॥ ३१॥

ऋतुनाथसखारातिः ऋतुकालमहोज्ज्वला ।
क्रूरपापपरीहारः क्रूरलोकपराङ्मुखी ॥ ३२॥

रूपनिर्जितकन्दर्पो रूपलावण्यवारिधिः ।
रूप्याचलनिवासश्च रूपयौवनशालिनी ॥ ३३॥

भ्रूणयोगिगणाराध्यो भ्रूणहार्तिविनाशिनी ।
भ्रूभङ्गविलसद्वक्त्रा भ्रूजितेन्द्रशरासना ॥ ३४॥

लुप्तकन्दर्पगात्रश्च श्लिष्टकान्तकलेवरा ।
लुण्ठितारिपुरश्चैव क्लृप्तवृत्तिसुराङ्गना ॥ ३५॥

लब्धभक्तिजनप्रेयान् लब्धभोगविडम्बिनी ।
लुलायवाहनारातिः लुलायासुरमर्दिनी ॥ ३६॥

लुब्धभस्माङ्गरागाढ्यः क्लृप्ताकल्पसमुज्ज्वला ।
लूनब्रह्मशिरालीढमदिरामोदविह्वला ॥ ३७॥

क्लीब्यः क्लीङ्कारनिलया श्लाघ्यः श्लाघ्यगुणाश्रया ।
म्लानेतरमुखाम्भोजो ब्लूम्बीजार्थस्वरूपिणी ॥ ३८॥

एणारचूड एकाक्षर्यैक एकान्तवासिनी ।
एषणारहितश्चैणलोचना चैधितोत्सवः ॥ ३९॥

एकान्तपूजनप्रीता एकान्तध्यानतत्परः ।
एकभोगा एकसौख्यः एकैश्वर्यप्रदायिनी ॥ ४०॥

एकभक्त एकगुणा एकान्ताध्वरदीक्षितः ।
एकवीरप्रभापूरनिमज्जत्प्रियमानसा ॥ ४१॥

एनःकान्तारदावाग्निरेकप्राभवशालिनी ।
एकसिद्ध एकक्लृप्तिः एकसृष्टिस्तथैधिता ॥ ४२॥

एलाकर्पूरताम्बूलप्रीत एकान्तपूजिता ।
एकविद्य एककान्ता एकभक्तिमदर्चितः ॥ ४३॥

ऐङ्कारबीजमात्राढ्या ऐरावतपतिस्तुतः ।
ऐरावतसमारूढा ऐन्द्रलोकसमाश्रयः ॥ ४४॥

ऐङ्कारशुक्तिकामुक्तामणिरैरावणार्चितः ।
ऐङ्कारादर्शबिम्बश्रीरैङ्कारप्रतिभूमिकः ॥ ४५॥

ऐङ्कारमन्त्रसर्वस्वं ऐश्वर्याधिकशोभनः ।
ऐन्द्रलोकविधात्री च ऐश्वर्याष्टकदायकः ॥ ४६॥

ऐं ऐम्पदजपप्रीत ऐङ्कारमनुजापिका ।
ओङ्काररूप ओङ्कारनिलया ओम्पदाभिधः ॥ ४७॥

ओजोवती तथौजस्वी ओतप्रोतविवर्जिता ।
ओषधीशार्धचूडश्च ओषधीफलदायिनी ॥ ४८॥

ओड्डामरेश्वराराध्य ओड्याणाभरणोज्ज्वला ।
ॐ तद्ब्रह्मपदस्थोमा ओड्याणपीठवासिनी ॥ ४९॥

ओमित्येकाक्षरपद ओषधीशसमानना ।
ओघीकृतमहातेजा ओघत्रयविलासिनी ॥ ५०॥

ओङ्कारमूलिकाकन्द ओकारा वालवल्लरी ।
ओङ्कारगिरिहर्यृक्ष ओन्नमस्कारवाच्यका ॥ ५१॥

ओमापोज्योतिरादित्य ओड्डीशानन्दरूपिणी ।
औपम्यरहित औदार्यशालिन्यौपद्रवापहः ॥ ५२॥

औङ्कार्यौर्वानलरुचिरौन्नत्यपददायिनी ।
औपासनपरश्चौपनिषदर्थस्वरूपिणी ॥ ५३॥

अम्बिकापतिरम्बाच अन्तर्याम्यन्तरात्मिका ।
अण्डकोटिसहस्रेशश्चाण्डाद्बाह्यनिकेतना ॥ ५४॥

अन्धकासुरसंहारी चान्तस्तिमिरभेदिनी ।
अन्तकारिरनन्तश्रीरनन्तोऽनन्तपूजिता ॥ ५५॥

अञ्जनातनयाराध्यश्चाञ्जनार्थविधायिनी ।
अङ्गीकृतमहाक्ष्वेलश्चाङ्कारोपितषण्मुखा ॥ ५६॥

अंशुमानंशुमत्सेव्या चान्तकारारातिरङ्गना ।
अष्टविद्येश्वराराध्यश्चाष्टसिद्धिविधायिनी ॥ ५७॥

अष्टमूर्तिरष्टलक्ष्मीसेविताङ्घ्रिसरोरुहा ।
अष्टाविंशागमस्तुत्यश्चाष्टत्रिंशत्कलात्मिका ॥ ५८॥

अष्टदिक्पालसेव्याङ्घ्रिरष्टाष्टककलात्मिका ।
अष्टादशपुराणज्ञश्चाष्टादशपुरीश्वरी ॥ ५९॥

अष्टदिग्गजसंवीतश्चाष्टवर्णविलासिनी ।
अष्टापदाद्रिकोदण्डश्चाष्टैश्वर्यप्रदायिनी ॥ ६०॥

अष्टभैरवसंवीतश्चाष्टद्वयवयोज्ज्वला ।
अष्टाक्षरीजपपरश्चाष्टवाग्देवतावृता ॥ ६१॥

अर्धादिशिखरावासश्चार्धनारीश्वरप्रिया ।
अष्टाङ्गयोगनिरतश्चाष्टशक्तिपरीवृता ॥ ६२॥

अष्टापदमहापीठ अष्टापदगिरिस्थिता ।
आश्चर्यशील आश्चर्यनिलयाऽऽश्चर्य एव च ॥ ६३॥

आश्चर्यजनिराश्चर्यनिष्ठ आश्चर्यदायिनी ।
आर्तिघ्न आर्तिसंहर्त्री आकस्मिकमहोज्ज्वलः ॥ ६४॥

कल्याणीकलिताकल्पः कल्याणाचलवासिनी ।
कमनीयगुणावासः कमलाक्षसहोदरी ॥ ६५॥

कञ्जभूजनकः कञ्जनेत्री कर्मफलप्रदः ।
कर्मकर्त्रीकालकालः कन्दर्पावहदर्शना ॥ ६६॥

कन्दर्पकोटिलावण्यः कमलाक्षी कपालभृत् ।
कात्यायनी कालकालः काव्यालापविनोदिनी ॥ ६७॥

काट्यः कपर्दिसुखदा कैलासशिखरालयः ।
कामेश्वरालिङ्गिताङ्गी कामदः कलिनाशिनी ॥ ६८॥

कर्मी कामकला चैव कामकेलिविनोदनः ।
कदम्बवाटीमध्यस्था कदम्बवननायकः ॥ ६९॥

खट्वाङ्गादिप्रहरणा खड्गखेटकधारकः ।
खगवाहद्वयादृश्या खगराजपराक्रमः ॥ ७०॥

खगानेकप्रभा खेलाक्लृप्तब्रह्माण्डमण्डलः ।
खेदध्नखेचरीयोगदायिनी खेचरेश्वरः ॥ ७१॥

खञ्जरीटसमच्छाया खललोकपराङ्मुखः ।
खश्यामा खगतिस्तुत्यः खातपातविनाशिनी ॥ ७२॥

खमूर्धजः खगगतिः खगः खगविधायिनी ।
खड्गरावणपूज्याङ्घ्रिः खगचारुपयोधरा ॥ ७३॥

खण्डिताशेषपाषण्डः खिन्नाभीष्टप्रदायिनी ।
गङ्गाधरो गिरिसुता गजास्यासुरसूदनः ॥ ७४॥

गम्भीरा गगनाकारो गजकुम्भनिभस्तनी ।
गजचर्मपरीधानो गन्धर्वकुलसेविता ॥ ७५॥

गिरीन्द्रचापो गीर्वाणसन्नुता गानलोलुपः ।
गुहेभवक्त्रजननी गुह्यकेशसखो गुरुः ॥ ७६॥

गुह्यकाराध्यचरणो गणनाथा गभीरधीः ।
गण्या गुरुर्गुणातीता गुणज्ञो गुणमातृका ॥ ७७॥

गोविन्दो गोपिकाराध्या गोपतिर्गोमती तथा ।
गन्धर्वरूपो गन्धर्वकन्याकोटिसमर्चिता ॥ ७८॥

घनो घनागमश्यामा घनप्रौढो घनस्तनी ।
घृणी घृणानिधिर्घ्राणो घृताचीपूज्यपादुकः ॥ ७९॥

घण्टामुखसुसंप्रीतो घण्टारवविनोदिनी ।
घनीभूतप्रभापूरो घळङ्घलितमेखला ॥ ८०॥

घनसारविलिप्ताङ्गो घनसारसवर्णिनी ।
घूर्णमानजगत्प्राणो चूर्णितारक्तलोचना ॥ ८१॥

घटोद्भवमुनिस्तुत्यो घटोद्भवकृतानतिः ।
घटोद्भवकृतस्नेहो घटाकारकुचद्वया ॥ ८२॥

घोरदंष्ट्राकरालास्यो घोरघोरस्वरूपिणी ।
घोषपालसहस्रेशो घोषान्तःपुरचारिणी ॥ ८३॥

घोषितागमसर्वस्वो घोषिताम्नायवेदिता ।
घोरपापाटवीदावो घोरपातकनाशिनी ॥ ८४॥

धर्मादित्यप्रतीकाशो धर्मसन्तापचन्द्रिका ।
धर्माग्निहोत्रसुप्रीतो घर्माहुतिफलप्रदा ॥ ८५॥

चतुरश्रगृहावासश्चतुरङ्गबलेश्वरी ।
चतुश्चक्रसमाराध्यश्चतुर्वर्गफलप्रदा ॥ ८६॥

चातुर्यशाली चतुरा चतुराननदेशिकः ।
चतुष्षष्टिमहादूती योगिनीगणसेविता ॥ ८७॥

चन्द्रचूडश्चन्द्रमुखी चन्द्रादित्याग्निलोचनः ।
चामीकराचलावासा चामीकरमहासनः ॥ ८८॥

चारुचामरहस्तश्री शारदापरिवीजिता ।
चन्द्रिकाधवलाकारश्चक्रवाकनिभस्तनी ॥ ८९॥

चापीकृतमहामेरुश्चापबाणलसत्करा ।
चक्रवालाद्रिनिलयश्चक्रवाकप्रियङ्करी ॥ ९०॥

चक्रदानरतश्चैव चक्रराजनिकेतना ।
चारुहासमुखश्चैव चारुचन्द्रकलाधरा ॥ ९१॥

चिच्छक्तिश्चिद्घनश्चैव चिन्ताशोकविवर्जिता ।
चित्राम्बरश्चित्रवेषा चित्रकृत्यश्चिदाकृतिः ॥ ९२॥

चर्माम्बरश्चक्रहस्ता चक्रपाणिर्वरप्रदः ।
चैतन्यकुसुमप्रीता चैतन्यश्चारुवादिनी ॥ ९३॥

चमूरुपाणिश्चाम्पेयनासिका चम्पकप्रियः ।
चञ्चलाक्षी चञ्चलात्मा चञ्चरीककुलालका ॥ ९४॥

चतुरास्यशिरश्छेत्ता चण्डासुरनिषूदिनी ।
चण्डेश्वरश्चण्डिकाच चित्रकृत्यविशारदः ॥ ९५॥

चित्ररूपा चित्तजारिः चितिश्चिन्तितदायकः ।
छन्दोग्या छन्दसाऽऽराध्यः छन्दोराशिश्छविच्छदः ॥ ९६॥

छन्दोगा छान्दसाऽऽराध्यः छत्रिणी छविपञ्जरः ।
छायापतिसमाराध्या छन्दश्छायानुसारिणी ॥ ९७॥

छन्दोऽभ्यासैकनिरतश्छन्दोगस्तुतिमोदिनी ।
छिन्नारिवर्गसङ्घातश्छन्नपातकनाशिनी ॥ ९८॥

छनदैत्यकुलच्छेत्ता छायामण्डललक्षिता ।
छायातपत्रसंवीतश्छनवीरपरिष्कृता ॥ ९९॥

जननी जनको जेत्री जित्वरो जितमत्सरा ।
जगदुज्जीवनकरो जराध्यान्तरविप्रभा ॥ १००॥

जगत्प्राणो जगत्कर्त्री जगदाह्लाददायकः ।
जनविश्रान्तिदात्री च जितकामो जयार्चिता ॥ १०१॥

जमदग्निसमाराध्यो जमदग्निवरप्रदा ।
जङ्गमाजङ्गमोत्सन्नो जङ्गमस्थावरात्मिका ॥ १०२॥

जितामित्रो जितक्रोधा जातिवर्णविवर्जितः ।
जातीचम्पकपुन्नागविलसन्नीलकुन्तला ॥ १०३॥

साक्षी जाग्रदवस्थायाः जगद्रक्षणजाग्रती ।
जम्भारिप्रमुखाराध्यो जम्भारिमणिमण्डिता ॥ १०४॥

जातरूपाचलधनुः जगत्प्रलयसाक्षिणी ।
झषादिरूपदशकसेविताङ्घ्रिसरोरुहः ॥ १०५॥

झषाक्षी झषकेत्वङ्गदाहको झम्पदाभिधा ।
झर्झरारावरसिको झल्लरीवाद्यकोविदा ॥ १०६॥

झटित्यभीष्टदाता च झलज्झलितमेखला ।
झषकेत्वङ्गजनको झरीकृतसुभाषणा ॥ १०७॥

ज्ञानज्ञप्तिर्ज्ञानरूपो ज्ञानज्ञेयविलासिनी ।
ज्ञानवेद्यो ज्ञानगम्या ज्ञानदो ज्ञानसिद्धिदा ॥ १०८॥

ज्ञानाधारो ज्ञानमुद्रा ज्ञानयज्ञपरायणः ।
ज्ञानदृष्टिप्रतीता च ज्ञानदृष्टिप्रकाशकः ॥ १०९॥

ज्ञाननिष्ठा ज्ञाननिधिः ज्ञातव्यार्थप्रकाशिनी ।
ज्ञातिहीनो ज्ञानयज्ञदीक्षिता ज्ञानवृद्धिदः ॥ ११०॥

ज्ञाननिष्ठजनप्रीता ज्ञानशास्त्रप्रवर्तकः ।
ज्ञानाम्बुनिधिपूर्णेन्दुः ज्ञानामृतमहोदधिः ॥ १११॥

ज्ञानज्ञेयज्ञातृरूपत्रिपुटीवीक्षणातिगा ।
टङ्काद्यायुधसम्पन्नः टङ्काराक्षररूपिणी ॥ ११२॥

टङ्काराकारचन्द्रश्रीः टङ्कारामृतवर्षिणी ।
डाकिनीशक्तिसंयुक्तो डाकिन्यादिपरीवृता ॥ ११३।
डिण्डिमध्वनिसुप्रीतो डाडिमीकुसुमप्रभा ।
ढक्कावाद्यविशेषज्ञः ढकाराक्षररूपिणी ॥ ११४॥

ताम्रस्ताम्राधरा तत्त्वं तटिद्गौरी तमोनुदः ।
तरुणार्कप्रतीकाशा तरुणेन्दुशिखामणिः ॥ ११५॥

तापत्रयाग्निशमना तारकस्ताम्रलोचना ।
तरुणस्तरुणी चैव तपोमूर्तिस्त्रयीमयी ॥ ११६॥

तापसान्तरसञ्चारी तापसीवेषधारिणी ।
तारस्वरूपस्तारेशवदना ताण्डवप्रियः ॥ ११७॥

तन्वी ताम्रजटाजूटस्तमालश्यामलाकृतिः ।
त्र्यम्बकश्च त्रिकोणेशी त्रिमूर्तिस्त्रिपुराम्बिका ॥ ११८॥

त्रिकूटज्ञस्त्रिकूटेशी त्रिविष्टपपदप्रदः ।
त्र्यक्षरी त्रिगुणातीतस्त्रिदशश्रीसमावृता ॥ ११९॥

त्रिकालज्ञस्त्रिलोकेशी त्रेताग्निस्त्रिपदात्मिका ।
देवेशो दक्षिणामूर्तिर्दक्षयज्ञविनाशिनी ॥ १२०॥

देवदानवसेव्याङ्घ्रिर्दरस्मेरमुखाम्बुजा ।
दर्वीकरेन्द्रभूषाढ्यो दरान्दोलितलोचना ॥ १२१॥

दिगम्बरो दयामूर्तिर्देशिको दीनवत्सला ।
देशकालपरिज्ञाता देशोपद्रवनाशिनी ॥ १२२॥

दीक्षितो दण्डनीतिस्था देवर्षिगणसेवितः ।
दहराकाशनिलया दुष्टदूरो दुरासदा ॥ १२३॥

दुःखदारिद्र्यशमनो दुराचारपराङ्मुखी ।
दिनारम्भार्ककोटिश्रीः दिव्यज्ञानसुधानिधिः ॥ १२४॥

धनेश्वरसखो धन्या धनुष्मान्धनशेवधिः ।
धर्माधारो धर्मपरा धर्मो धर्मकृदाश्रया ॥ १२५॥

धीरो धैर्यगुणोपेतो धीरोदात्तगुणोत्तरः ।
धीमती धैर्यनिलयो धराधरसुता धनी ॥ १२६॥

धर्मेतराटवीदावपावका धर्मविग्रहः ।
धैर्यदात्री धैर्यशीलो धौरेयजनवत्सला ॥ १२७॥

नागाचलेन्द्रनिलयो नागकन्यासमर्चिता ।
नागेन्द्रकुण्डलधरो नागराजसुपूजिता ॥ १२८॥

नागचर्मपरीधानो नागाननगुहप्रसूः ।
नागेन्द्रहारवलयो नागमाणिक्यमण्डिता ॥ १२९॥

नागेशाद्यमरस्तुत्यो नागस्त्रीकोटिसन्नुता ।
नागारिवाहजनको नागकुम्भनिभस्तनी ॥ १३०॥

नागेन्द्रशिखरोत्तंसो नागेन्द्रप्रियनन्दिनी ।
नारायणप्रियसखो नारसिंहवपुर्धरा ॥ १३१॥

नारदादिमुनिस्तुत्यो नामपारायणप्रिया ।
निर्जरारिगणध्वंसी नित्ययौवनशालिनी ॥ १३२॥

पञ्चब्रह्ममयः पञ्चब्रह्ममञ्चाधिशायिनी ।
पञ्चयज्ञपरप्रीतः पञ्चकृत्यपरायणा ॥ १३३॥

पञ्चाक्षरमनुप्रीतः श्रीमत्पञ्चदशाक्षरी ।
पञ्चभूतनिवासश्च पञ्चपातकनाशिनी ॥ १३४॥

पञ्चेन्द्रियविलासश्च पञ्चबाधानिवारिणी ।
पञ्चपञ्चावतारश्च पञ्चाशद्वर्णरूपिणी ॥ १३५॥

पञ्चवक्त्रः पार्वती च पञ्चवज्रासनस्थितः ।
प्रपञ्चकोटिजननी प्रपञ्चोत्पत्तिवर्जितः ॥ १३६॥

पञ्चाशत्पीठनिलया परब्रह्म परात्परा ।
पञ्चयज्ञपरावासः पञ्चसङ्ख्योपचारिणी ॥ १३७॥

फालनेत्रः फलाधारा फलवान्फलरूपिणी ।
फुल्लारविन्दनयनः फुल्लेन्दीवरलोचना ॥ १३८॥

फालमध्यलसन्नेत्रदहनालीढमन्मथः ।
फालचन्द्रकलङ्कश्रीकस्तूरीतिलकोज्ज्वला ॥ १३९॥

स्फटिकाद्रिसवर्णाभः स्फटिकाक्षलसत्करा ।
स्फारकीर्तिः स्फुरत्कान्तिः स्फुटगङ्गाजटाधरः ॥ १४०॥

स्फुरन्मङ्गलसूत्राढ्या स्फुरत्ताटङ्गमण्डितः ।
स्फुटाट्टहासवदनतोषितेशमनोरथा ॥ १४१॥

फाल्गुनास्त्रोद्भिन्नशिराः फाल्गुनास्त्रप्रदायिनी ।
बलभद्रार्चितो बाला बलवान् बलतोषिता ॥ १४२॥

बलीवर्दसमारूढो बालार्ककिरणारुणा ।
बडवाग्निप्रतीकाशो बाहुलेयप्रियङ्करी ॥ १४३॥

बिल्वकान्तारमध्यस्थो बिसतन्तुसमाकृतिः ।
बाणासुरार्चनप्रीतो बाणचापलसत्करा ॥ १४४॥

बिन्दुमण्डलमध्यस्थो बिन्दुनादस्वरूपिणी ।
बहुरूपश्च बिम्बोष्ठी बुद्धिज्ञेयो बुधार्चिता ॥ १४५॥

बुध्यो बुद्धिप्रदा बुद्धिधनदो बिन्दुमालिनी ।
भस्मोद्धूलितसर्वाङ्गो भक्तानुग्रहतत्परा ॥ १४६॥

भवो भवानी भर्गश्च भवघ्नी भवनाशनः ।
भद्रमूर्तिर्भाग्यनिधिर्भक्ताभीष्टप्रदायिनी ॥ १४७॥

भिषग्भेषजरूपा च भक्तहार्दतमोनुदः ।
भूतिदात्री भूतिभूषो भूतधात्री भवोद्भवः ॥ १४८॥

भुवनेशी भोगिभूषो भद्रकाली भगाक्षिभित् ।
महादेवी महाराज्ञी महान्मङ्गलरूपिणी ॥ १४९॥

महामृत्युप्रशमनो महाताण्डवसाक्षिणी ।
मन्त्रवेद्यो मन्त्रमयी मित्रेशो मित्ररूपिणी ॥ १५०॥

मन्दस्मितमुखाम्भोजो मदिरामोदविह्वला ।
मत्तेभचर्मवसनो मत्तमातङ्गगामिनी ॥ १५१॥

मीढुष्टमश्च मीनाक्षी मुदितो मुक्तिदायिनी ।
मूलमन्त्रस्वरूपज्ञो मूर्तिन्यासाधिदेवता ॥ १५२॥

मृगपाणिर्मृगमदालिप्ताङ्गी मृत्युभञ्जनः ।
मेनकानन्दिनीमेध्यो मेघश्यामलकुन्तला ॥ १५३॥

यक्षराजप्रियसखो यक्षस्त्रीकोटिसेविता ।
यज्ञप्रियो यज्ञभोक्त्री यज्वा याज्यश्च याजकः ॥ १५४॥

यमादिनियमप्रीता याम्यो यमभयापहा ।
योगी योगप्रदा योग्यो योगिवृन्दसमर्चिता ॥ १५५॥

यमारातिर्यायजूकवत्सला युगनायकः ।
यशस्विनी यजुर्वेदस्तुत्यो योषामणिस्तथा ॥ १५६॥

यक्षराक्षसवेतालभयघ्नो यक्षिणीश्वरी ।
रक्ताद्रिशिखरावासो रक्ताक्षी रम्यभूषणः ॥ १५७॥

रमणीयगुणस्तोमा राकाचन्द्रनिभाननः ।
राजीवदलनेत्री च रूपवान् रोगवर्जिता ॥ १५८॥

रूपयौवनसम्पन्नो रूढयौवनशालिनी ।
रेवतीपतिपूज्याङ्घ्रिः रेणुकास्तुतिमोदिनी ॥ १५९॥

रोमहर्षणसर्वाङ्गो रोगारण्यकुठारिका ।
रूप्याचलेन्द्रनिलयो रणन्मञ्जीरनूपुरा ॥ १६०॥

रम्भानाट्यप्रियश्चैव रम्भास्तम्भोरुशालिनी ।
रसप्रियो रसावासा रसिको रसरूपिणी ॥ १६१॥

ललाटाक्षो ललामश्री विडम्बिमुकुरप्रभा ।
लास्यप्रियो लास्यकर्त्री लाभालाभविवर्जितः ॥ १६२॥

लकुली लिङ्गरूपश्च लावण्यामृतवारिधिः ।
लब्धभाग्यो लब्धपतिर्लब्धसौख्यो लसत्तनुः ॥ १६३॥

लोकालोकाचलावासो लोकपालसमर्चिता ।
लक्ष्मीनारायणस्तुत्यो लीलाशुककरोज्ज्वला ॥ १६४॥

लोकरक्षकनिरतो लाकिन्यादिपरीवृता ।
लङ्कापतिसमाराध्यपादुको ललिताम्बिका ॥ १६५॥

वामदेवो विशालाक्षी विषकण्ठो विराण्मयी(णिः)।
विरूपाक्षो विद्रुमाभा विद्युत्केशो वियत्प्रसूः ॥ १६६॥

वेदागमपुराणज्ञो वेदान्तार्थस्वरूपिणी ।
वाञ्छिताखिलदाता च वाञ्छितार्थप्रदायिनी ॥ १६७॥

वीरभद्रो वीरमाता विश्वामित्रप्रियङ्करः ।
वीरगोष्ठीप्रिया वीरो विष्णुमायाविलासिनी ॥ १६८॥

विश्वम्भरो विश्वकर्त्री वीर्यवान् विश्वसाक्षिणी ।
वौषडन्तपदस्तुत्यो वौषडन्तसमुत्सुका ॥ १६९॥

शङ्करः शाम्भवी शम्भुः शङ्करार्धशरीरिणी ।
शितिकण्ठः शिवाराध्या शिवः शिवकुटुम्बिनी ॥ १७०॥

शिष्टेष्टदः शिष्टगतिः शुद्धवर्णः शुचिस्मिता ।
शेषाद्रिशिखरावासः शेषकन्यासमर्चिता ॥ १७१॥

श्रीमान् श‍ृङ्गारलहरी श‍ृङ्गारार्धकलेवरः ।
श्रीप्रदा शिपिविष्टश्च श्रीकण्ठा श्रितवत्सलः ॥ १७२॥

श्रितत्रात्री शिवपरः शिष्टः शिवपतिव्रता ।
षडक्षरन्यासरूपः षट्कोणपुरवासिनी ॥ १७३॥

षट्षष्टिकोटितीर्थज्ञः षट्त्रिंशत्तत्त्वरूपिणी ।
षोढान्यासपरप्रीतः षोडशाक्षररूपिणी ॥ १७४॥

षड्-दर्शनसमासीनः षड्वर्गारिविनाशिनी ।
षट्कालपूजनप्रीतः षडाम्नायाधिदेवता ॥ १७५॥

षड्वक्त्रजनकश्चैव षट्चक्रपुरनायिका ।
षड्गवेषधरः षड्गवेषलोकपराङ्मुखी ॥ १७६॥

षाड्गुण्यपरिपूर्णश्च षड्गुणातीतविग्रहा ।
षडम्बुरुहचक्रश्रीः षष्ठीशमयरूपिणी ॥ १७७॥

सदाशिवः सदाराध्या सर्वज्ञः सर्वसाक्षिणी ।
सकलागमसंस्तुत्यः सर्वलोकवशङ्करी ॥ १७८॥

सर्वेश्वरश्च सावित्री संवित्संविद्विलासिनी ।
सदाचारपरप्रीतः सौमङ्गल्यविवर्धिनी ॥ १७९॥

सर्वसौभाग्यजनकः साध्वी साधुजनप्रियः ।
सौन्दर्यलहरी चैव सौरमन्त्रप्रकाशनः ॥ १८२॥

सौरदर्शनसेव्याङ्घ्रिः सौख्यदः सौख्यशालिनी ।
सौहार्दनिलयश्चैव सौहित्यप्रियमानसः ॥ १८३॥

सर्वपातकसंहारी सर्वधर्मप्रवर्धिनी ।
सोमः सौम्यगुणा सत्यः सत्यज्ञानपरायणा ॥ १८४॥

हालाहलाङ्कितग्रीवो हेलालालितमन्मथा ।
हेरम्बतातो हेमाद्रिनिलया हिमशैलगः ॥ १८५॥

हयमेधसमाराध्या हयग्रीवमुखस्तुतः ।
हत्यादिदुरिताघघ्नी हरो हरिसहोदरी ॥ १८६॥

हिरण्यगर्भजनको हिरण्यमणिकुण्डला ।
हिरण्यरेता हेमाङ्गी तथा हेमसभापतिः ॥ १८७॥

हेमकुम्भस्तननता हंसनामपदस्तुतः ।
हंसकालपदस्तुत्या हकारो हंसिकागतिः ॥ १८८॥

हस्तिचर्माम्बरधरो हस्तिगा हतशात्रवः ।
हर्यृक्षवाहना हंसो हंसमन्त्रप्रकाशिनी ॥ १८९॥

प्रळयार्कप्रभापूरः प्रळयाग्निसमप्रभा ।
प्रळयाम्बुधिनिर्घोषः प्रळयानिलवेगिनी ॥ १९०॥

व्याळेन्दुकुण्डलधरो व्याळारिध्वजसोदरी ।
काळकण्ठः कळालापः कलापतिशिखमणिः ॥ १९१॥

काळी काळिन्दिसंसेव्यः काळरात्रितपस्विनी ।
कलानिधिः काळकण्ठी पञ्चमाराववाङ्मयी ॥ १९२॥

कळङ्करहितः काळमेघश्यामलकुन्तला ।
क्षमाधरेन्द्रजामाता क्षमाभृद्वरनन्दिनी ॥ १९३॥

क्षपानाथार्धमकुटः क्षपानाथसमानना ।
क्षमानिधिः क्षमापूज्या क्षमाकान्तः क्षमावती ॥ १९४॥

क्षामक्षामः क्षाममध्या क्षिप्रजित् क्षिप्रसिद्धिदा ।
क्षुद्रेतरप्रसन्नात्मा क्षुद्रशून्यविनाशिनी ॥ १९५॥

क्षेत्रेश्वरः क्षेत्रकरी क्षेत्रवृद्धः क्षयापहा ।
क्षेमङ्करः क्षणप्रीता क्षणदाचरभञ्जनः ॥ १९६॥

क्षयवृद्धिविहीना च क्षेत्रज्ञः क्षेत्रवासिनी ।
क्षयापस्मारशमनः क्षेत्रपालसुपूजिता ॥ १९७॥

क्षणपूजाप्रसन्नात्मा क्षौमाम्बरपरिष्कृता ।
क्षुद्ररोगापहारी च क्षुद्रकृत्यपराङ्मुखा ॥ १९८॥

क्षोणीरथसमारूढः क्षोभिणी क्षोभदायकः ।
अकारादिक्षकारान्तवर्णमालाविभूषणः ॥ १९९॥

आखण्डलादिगीर्वाणगणाराधितपादुका ।
इनशीतांशुदहनलोचनश्चेष्टसिद्धिदा ॥ २००॥

ईड्य ईषत्स्मितमुखी उद्यत्सूर्यसमप्रभः ।
ऊर्ध्वाम्नायसमारूढा ऋणत्रयविमोचकः ॥ २०१॥

रूपनिर्जितकन्दर्पो लुब्धकीरूपधारिणी ।
लुब्धकाङ्गसमाविष्ट एषणारहितार्चिता ॥ २०२॥

एकाधिपत्य फलदः ऐहिकामुष्मिकप्रदा ।
ओकारमन्त्रसर्वस्वः औदार्यगुणशालिनी ॥ २०३॥

अम्बिकाप्राणदयितो अन्नपूर्णेश्वरेश्वरी ।
अर्धाद्रिशिखरावास अर्धनारीनरेश्वरी ॥

अर्धाद्रिशिखरावासार्धनारीश्वरमूर्तये नमः ॥ ॐ।

इति अर्धनारीश्वरसहस्रनामस्तोत्रं सम्पूर्णम् ।


Post a Comment

0 Comments