Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Sri Padmavati Sahasranama Stotram 2- श्रीपद्मावतीसहस्रनामस्तोत्रम् २

Sri Padmavati Sahasranama Stotram 2- श्रीपद्मावतीसहस्रनामस्तोत्रम् २ 



ॐ श्रीगणेशाय नमः

भैरव उवाच -

श्रीशैलशिखरासीनं देवीशं परमेश्वरम् ।

प्रहसन्तं विरूपाक्षं गणगन्धर्वसेवितम् ॥ १॥


ब्रह्मोपेन्द्रेन्द्रचन्द्रार्कगुरुभार्गवपूजितम् ।

नागयज्ञोपवीतं च भूतिभूषितविग्रहम् ॥ २॥


त्रिशूलखट्वाङ्गधरं शरहस्तं पिनाकिनम् ।

जटाजूटोज्ज्वलं देवं गङ्गाधरमुमेश्वरम् ॥ ३॥


जयन्तं मनसा तत्त्वं ध्यानोन्मीलितलोचनम् ।

उभया परया भक्त्या सेविताङ्घ्रिसरोरुहम् ॥ ४॥


प्रसन्नवदनं देवं करुणपूर्णमानसम् ।

प्राणम्योत्थाय रुद्राणी भैरवं वाक्यमब्रवीत् ॥ ५॥


ॐ भगवन् देवदेवेश भक्तानुग्रहकारक ।

शरण्यं वरदेशान त्रिनेत्र त्रिपुरान्तक ॥ ६॥


त्वमात्मा जगतां साक्षी त्वं तत्त्वं वेदवित्परः । (६४)

त्वं तन्त्रवादी मन्त्रेशो नेत्रेशो घोरभैरवः ॥ ७॥


हाटकेश्वर ईशोऽसि नागराजोपसेवितः ।

श्रीसर्वज्ञेश्वरी देवी परा पद्मावतीति या ॥ ८॥


तस्या नामसहस्रं मे वक्तुमर्हसि भैरव ।

भैरव उवाच -

देवदेवीति या देवि श्रीसर्वज्ञेश्वरेश्वरी ॥ ९॥


पद्मावतीति या देवि महाचीनद्रुमाश्रया ।

श्रीबुद्धोपासिता विद्या महाविद्याधीदेवता ॥ १०॥


परब्रह्म परा देवी अधाराम्नायनायकी ।

विंशाक्षरी च कमला कमलाक्षी च पञ्चमी ॥ ११॥


तस्या नामसहस्रं ते वक्ष्ये परमदुर्लभम् ।

स्तुत्यं पुण्यप्रदं पुण्यं सर्वदेवादिपूजितम् ॥ १२॥


सर्वपापप्रशमनं सर्ववैरिनिषूदनम् ।

सर्वरोगहरं देवि सर्वोपद्रवनाशनम् ॥ १३॥


पूजाकोटिसमं दिव्यं सर्वदारिद्र्यनाशनम् । (६५)

लक्ष्मीप्रदं च धनदं विद्याश्चातुर्यकारणम् ॥ १४॥


सर्वशापूरकं साध्यमष्टसिद्धिप्रदायकम् ।

वेदतत्त्वं तन्त्रत्तत्वं मन्त्रतत्त्वैककारणम् ॥ १५॥


जयदं वलदं गुह्यं सर्वयज्ञफलप्रदम् ।

श्रुत्वा गोपय यत्नेन मन्त्रनामसहस्रकम् ॥ १६॥


पद्मावत्या रहस्यं मे सर्वस्वं पारदैवतम् ।

मन्त्रनामसहस्रस्य सदाशिवऋषिः स्मॄतः ॥ १७॥


त्रिष्टुप्छन्दो देवता च श्रीसर्वज्ञेश्वरेश्वरी ।

पद्मावतीति मा बीजं पराशक्तिरिति स्मॄता ॥ १८॥


कामकीलकमीशानि दिग्बन्धः प्रणवः स्मॄतः ।

धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः ॥ १९॥


ॐ अस्य श्रीपद्मवतीनामसहस्रस्य श्रीसदाशिवऋषिः,

त्रिष्टुप्छन्दः, श्रीसर्वज्ञेश्वरेश्वरी पद्मावति देवता ।

श्रीम्बीजं ह्रींशक्तिः क्लीं कीलकम् । ॐ इतिदिग्बन्धनम् । (६६)

श्रीधर्मार्थकममोक्षार्थे पद्मावती मन्त्रनामसहस्रस्य

                   जपे पाठे विनियोगः ।

अथ ध्यानम् ।

ॐ उद्यत्सूर्यमरीचिकोटिसदृशीमापीनन्तुङ्गस्तनी-

     मारक्ताम्बरधारिणीं शशिकलाचूडां त्रिनेत्रोज्ज्वलाम् ।

मालापद्मकपालकुम्भककरां पद्मासनां शीधुपाम् ।

     देवीं मुक्तकचां सुरासवरसां रक्तोक्षणां चिन्तये ॥


इति ध्यानम् ॥


ॐ ह्रीं श्रीं क्लीं ब्लूं नागी नागराजोपसेविता ।

नागेन्द्रतनया नारी नगराजसुतानघा ॥ १॥


नगरी नागरी नुत्या नगनायकनन्दनी ।

नीलम्बरधरानन्ता नीला नीलपताकिनी ॥ २॥


नीलक्रमेश्वरी नुन्ना नीलद्रूमलताश्रया ।

निशा निशाकरकला कोमला च कलावती ॥ ३॥


जयाश्रया जयकरी विजया विजयप्रदा ।

विलासिनी विश्वमाता विश्वेशी विश्वसूदिनी ॥ ४॥


विश्वप्रसूर्विश्वधात्री धात्री धातृवरप्रदा ।

अमृती मृत्युशमनी मारी मृत्युर्मनोन्मयी ॥ ५॥


मनस्विनी मानवती मनोज्ञा मदिरावती ।

इन्द्राणी दाहनी दीप्तिर्धर्मदा धर्मनायकी ॥ ६॥


रक्षोधात्री राक्षसेशी रक्षोलोकोपसेविता ।

वारुणी मदिरा मोदा वारुणीमदविह्वला ॥ ७॥


यात्याली वायुसूर्वाणी वयुपूज्या विभावरी ।

श्रीदा श्रीदेश्वरी श्रीला श्रीशोभा शङ्करी शिवा ॥ ८॥


ईश्वरी शाम्भवी मूर्तिर्ब्रह्मसूर्ब्रह्मवल्लभा ।

नारायणी शेषमूर्तीर्गुरुमूर्तिर्गरीयसी ॥ ९॥


कृसराकेशरवती कमला कमलावती ।

विमला निर्मला माला मालाक्षीरक्षपाकुला ॥ १०॥


कपालीश्वरसेव्या च कपालीशी कपालिनि ।

माल्याम्बरधरा साध्वी मालिनी हारिणी हरित् ॥ ११॥


हालाहालावती हेलालीला लीलावती तटी ।

वालिका कलिकाकाली कुरुकुल्लाच कोमला ॥ १२॥


डाकिनी डक्किका योग्या योगिनी खेचरी चरी ।

ब्रह्माणी ब्रह्मरुद्राणी वैष्णवी चण्डिका जया ॥ १३॥


दैत्यदर्पहरी ध्येया दर्पवत्यपराजिता ।

कौमारी कुलिकाकुह्या वाराही वरदायिनी ॥ १४॥


नारसिंही वीरसिंही नृपसिंहसमर्चिता ।

असिताङ्गी नताङ्गी च रुरुभैरवपूजिता ॥ १५॥


कपालभैरवेशानी भीषणा भीषणेश्वरी ।

संहारभैरवी भीमा भीमावामाङ्गवासिनी ॥ १६॥


गणेश्वरी गुणातीता निर्गुणा निष्कला कला ।

सकला सकलाधारा धराधरसुताप्रसूः ॥ १७॥


प्रजावती प्रेमवती विनता विनयप्रदा ।

विश्वम्भरा वरगतिः सुगतिः सुगतार्चिता ॥ १८॥


स्वर्गतिः समतिः साध्वी सुखदाच सुखावती ।

त्रिनेत्रा त्रिपुरेशानी महात्रिपुरसुन्दरी ॥ १९॥


त्रिकुला त्रिपुराध्याक्षा त्रिवर्णा त्रिपुटेश्वरी ।

त्र्यक्षरी त्रिपुरा बाला महात्रिपुरभैरवी ॥ २०॥


वीरागिणी वीरगतिरध्विनी चास्ववाहिनी ।

अश्वप्लुतिः साधुगतिर्भरणी भारिणी भगा ॥ २१॥


भगमाला भगेशानी भगबिम्बाभमालिनी ।

कृत्तिका कृत्तिवस्त्रा च कृत्तिवासकुटुम्बिनी ॥ २२॥


कार्तिकेयप्रसूः कीर्तिः कीर्तिदा कीर्तिवर्धिनी ।

रोहिणि रोहिणिमूर्तिः रौहिणीयवरप्रदा ॥ २३॥


मृगावती मृगीनेत्री मृगलाञ्छनशेखरा ।

मृगराजगतिर्मृग्या मृगी मृगशिरोधरा ॥ २४॥


आर्द्रार्द्रवासना सान्द्रा पुनर्भूतिः पुनर्वसुः ।

पुनर्जया पुर्नर्दीना पुनर्वारा पुनर्वधूः ॥ २५॥


तिथ्या तिथिप्रिया तिथ्यापुष्पा पुष्पवती पुरी ।

अश्लेषाश्लेष रसिका मघा मोघावती सुहॄत् ॥ २६॥


पूर्वा पुर्वमुखी पौर्वा पुर्वाफाल्गुणिका तडित् ।

सौदामिनी सुदामा च सुधापानपरायणा ॥ २७॥


उत्तरा चोत्तराषा च सोत्तरोत्तरफाल्गुणी ।

हस्ता हस्तजनीत्री च खनित्री खनिरुत्तमा ॥ २८॥


चित्रा चित्राम्बरधरा स्वातिः स्वादुसुह्वीसुरी ।

विशाखा शाखिनी शाखा विशाखाजननी जडी ॥ २९॥


अरागिणी परा राग्यानुराधानुरुपूजिता ।

ज्येष्ठा श्रेष्ठा ज्येष्ठकला मूलं मूलधरागतिः ॥ ३०॥


पूर्वाषाढा च या षण्डी चोत्तराषाढवल्लभा ।

श्रावणी श्रावणीमुर्तिः श्रवणेशी श्रुतिस्मृतिः ॥ ३१॥


विश्रवा सश्रवा श्रव्या श्रान्ता वैश्रवणीश्वरी ।

धनेश्वरी धनिष्ठा च धनिलोकवरप्रदा ॥ ३२॥


शतं शमा शतभिषक् कलिकल्मषनाशिनी ।

पूर्वाभाद्रपदा भाद्रभाद्रदा भाद्रकालिका ॥ ३३॥


श्मशानकालिका घोरा कालिका वीरकालिका ।

उत्तरोतरभद्रा च पदचोत्तरकालिका ॥ ३४॥


रेवती देवकी देवी श्यामा दक्षिणकालिका ।

सूर्यांशुसदृशी शूरी चन्द्रिका चन्द्रवल्लभा ॥ ३५॥


मङ्गली मङ्गलवती योद्धदा बुद्धिवर्धिनी ।

बुद्धोपसेविता बोधा जीवदा जीवसेविता ॥ ३६॥


जीवन्तो गुरुदेहा च वाग्विलासप्रदायिनी ।

शुक्रः शुक्रप्रसूः शुक्रो शुक्रलिप्ता च शुक्रला ॥ ३७॥


शुक्रात्मिका शुक्रपूज्या शुक्रनीतिविवर्धिनी ।

शुक्रप्रिया शुक्रजया शुक्रचन्दनचर्चिता ॥ ३८॥


श्रुक्राङ्गरागलिप्ताङ्गी श्रुक्रैकतिलकप्रिया ।

शनिप्रस्था मन्दगतिर्मन्दमाता मदालसा ॥ ३९॥


मन्दाकिनी च मदिरा मदिरारुणलोचना ।

रक्तबाहुर्हरीकेतुः कैतवी केतुमालिनी ॥ ४०॥



ध्रुवा ध्रुवजनित्री च ध्रुवमार्गप्रवर्त्तिनी ।

अनुसुयानुलोमा च लोआपमुद्रा च लोपिनी ॥ ४१॥


अगस्त्योपासिता विद्या नवग्रहसमर्चिता ।

प्रतिपद्विकलातिथ्या द्वितीया सैव शक्तिका ॥ ४२॥


तृतीया कारिणीमुर्तिश्चतुर्था वेदनायकी ।

पञ्चमी षोम पञ्चेसी षष्ठी षड्रसलोलुपा ॥ ४३॥


सप्तमी सप्तशाखा च सप्तर्षिजनसेविता ।

अष्टमी वसुपूज्या च नवमी नवरात्रिका ॥ ४४॥


नवदुर्गाश्रया मूर्तिः श्रीदुर्गा कालरात्रिका ।

दशमी दशमीपुज्या दशदिक्पालवन्दिता ॥ ४५॥


एकादशी रुद्रमूर्ति द्वादशी सूर्यवल्लभा ।

त्रयोदशी शिवप्रीता भुतेशी च चतुर्दशी ॥ ४६॥


अमावास्य पितृकला पूर्णिमा चन्द्रवन्दिता ।

विद्याधरी मेनकाच चित्रलेखाप्यलम्बुषा ॥ ४७॥


तिलोत्तमाक्षरा रम्भा रम्भोरू लम्भकुन्दला ।

ऊर्वशी शीतलाङ्गी च शूलिनी कुन्तकेश्वरी ॥ ४८॥


सुन्दोपसुन्दशमनी महिषसुरसूदिनी ।

रक्तबीजहरा रक्तचण्डमुण्डनिषूदिनी ॥ ४९॥


निशुम्भशुम्भहर्त्री च मधुकैटभनाशिनी ।

हिरण्याक्षहरी धूर्ती रावणान्तकरी धृतिः ॥ ५०॥

सीता साध्वी शीलवती शम्भरान्तकरी सती ।
शम्बरारिसहाया च शम्बरारिरिपुप्रिया ॥ ५१॥

यक्षेश्वरी यक्षवधूर्यक्षिणी यक्षनायकी ।
रक्षोमाता राक्षसी च गान्धारी किन्नरीश्वरी ॥ ५२॥

पिशाची सुमुखी देवी मातङ्गी राजवल्लभा । (७४)
उच्छिष्टमुखचाण्डाली राजमातङ्गिनी तुरी ॥ ५३॥

महापिशाचिनी देवी शङ्किनी शङ्खिनी शता ।
गुह्या गुह्यतमा गोप्त्री यक्षिणी गुह्यकेश्वरी ॥ ५४॥

सुलोचना सुगोत्रा च सुवस्त्रा स्वर्णकङ्कणा ।
सिद्धेस्वरी सिद्धमाता सिद्धलोकनिवासिनी ॥ ५५॥


अणिमा महिमा सिद्धिर्गरिमा लघिमा तथा ।
ईशत्वसिद्धिः सत्सिद्धिः सप्तसिद्धिः सदाश्रया ॥ ५६॥

सकाम्यसिद्धिः सिद्धेछा मन्त्रसिद्धिः सुसिद्धिदा ।
भूतेश्वरी महाराज्ञी भुतेश्वरविलासिनी ॥ ५७॥

भूतधात्रि भूतविद्या भूतवेतालसेविता ।
तपस्विनी तपस्या च यश्स्या च यसखिनी ॥ ५८॥

स्तम्भिनी मुखमुद्रा च महास्तम्भेश्वरेश्वरी ।
गतिस्तम्भकरी त्रेता बगला बगलामुखी ॥ ५९॥ (७४)

मोहिनी काममोहा च मोहा त्रिपुरमोहिनी । (७५)
मारणीमुर्तिरीशानी मृत्युरूपा करालिनी ॥ ६०॥

केनाशवरदा केला जगदाकर्षिणीश्वरी ।
वशीकरणमूर्तिश्च राजलोकवशङ्करी ॥ ६१॥

उच्चाटनकरी मुद्रा शान्तिका शान्तिदायिनी ।
पौष्टिकी पुष्टिदा पुष्टिः सन्तानकतकस्थिता ॥ ६२॥

वन्ध्या च काकवन्ध्या च मृतवत्सा च वत्सला ।
वन्ध्यापुत्रप्रदा पौत्री पौत्रीपुत्रप्रियङ्करी ॥ ६३॥

मौक्तिकी मुक्तिदा मुक्तिर्मुक्ताहारविभूषणा ।
सरस्वती भारती च जडभावविनाशिनी ॥ ६४॥

उग्रताराभतारा च तिथितारोत्तरोत्तरा ।
नीली सुरार्चिता नीवी नीला नीलसरस्वती ॥ ६५॥

एका चैकजटजूटा महातारा जटालिनी ।
शैलदुर्गा शैलपुत्री ब्रह्मेशी ब्रह्मचारिणी ॥ ६६॥

चण्डघण्टा चण्डदुर्गा प्रचण्डा चण्डिका च्युता । (७५)
कूष्माण्डी स्कन्दमाता च गुहदुर्गा सुदुर्जया ॥ ६७॥ (७६)

कात्यायनी पुटदुर्गा कालदुर्गा कृकाटिकी ।
कालरात्री रत्नदुर्गा महागौरी गुणप्रिया ॥ ६८॥

देवदूती शिवादूती दूतदुर्गा पराम्बिका ।
वनदुर्गेति दुर्गा च पद्मदुर्गा पिलम्पिला ॥ ६९॥

श्रीविद्यावासिनी दुर्गा हिमाचलकृतालया ।
निषधाद्रिनिवासा च माल्यवद्गिरिवासिनी ॥ ७०॥

पारिजातगिरिस्था च गन्धमादनवासिनी ।
सह्यपर्वतसंस्था च कैलासाचलवासिनी ॥ ७१॥

मलयस्था लयातीता सप्तसागरवासिनी ।
सप्तद्वीपाश्रया पृथ्वी सप्तपातालवासिनी ॥ ७२॥

सप्तग्रहेश्वरी सप्तभुवनान्तरवासिनी ।
शिवतत्त्वमयी शक्तिः सदाशिवविलासिनी ॥ ७३॥

ईश्वराश्रयिणी काम्या शुद्धविद्या सदालसा । (७६)
माया मायवती याम्या कलातत्त्वप्रकाशिनी ॥ ७४॥ (७७)

विद्यावाग्वादिनी वाणी रागतत्त्वप्रमोदिनी ।
कालतत्त्वानुरागा च नियतिर्यतिवल्लभा ॥ ७५॥

पुरुषाकृतितत्त्वा च पुरुषार्थप्रदायिनी ।
प्रकृतिः प्रकृतिस्तुल्पा सकृतादेशदक्षिणा ॥ ७६॥

अहङ्कृतिरहन्तत्त्वा महतत्त्वभरालसा ।
बुद्धिर्मनोवेगवती त्वक् चक्षुर् ज्योतिरम्मयी ॥ ७७॥

श्रोत्रतत्त्वा च रसना रसाला रसपायिनी ।
घ्राणी मोहाकुला माद्री वामीशी पाणिपङ्कजा ॥ ७८॥

पादाश्रितधरा॥काशा पायुतत्त्वविचारिणी ।
तपस्तरसिकालिङ्ग्या लिङ्गामृतसुतर्पिता ॥ ७९॥

भगलिङ्गमयीमृर्तिर्भगलिङ्गसुखाश्रया ।
शब्दरूपा शब्दसुखा नादबिन्दुस्वरूपिणी ॥ ८०॥ (७७)

स्पर्शप्रिया स्पर्शतत्त्वा रसतत्त्वा रसालसा । (७८)
गन्धिनी च सुगन्धा च परमाकाररूपिणी ॥ ८१॥

शून्यरूपा शून्यमतिः शून्ययोनिः पराकृतिः ।
वह्निज्वाला महाज्वाला ज्वाललिङ्गनिवासिनी ॥ ८२॥

ज्वालामुखी कोटराक्षी ज्वालाजटिलरूपिणी ।
सलिलेशी जलेशा च हयोरूपा पयस्विनी ॥ ८३॥

पृथिवीपञ्चतत्वेशी षट्त्रिंशत्तत्त्वरूपिणी ।
वसन्तकुसुमश्रीश्च वसन्तर्तुसुखाश्रया ॥ ८४॥

ग्रीष्मज्वाला रविप्रीता वर्षावृष्टिविधायिनी ।
शरत्कुसुमसम्पश्च शारदा सिंहविष्टरा ॥ ८५॥

हेमन्तश्रीर्हैमवती हरिकान्ता हरेश्वरी ।
शिखरश्रीः शशिमुखी शरिकाशुकसेविता ॥ ८६॥

यमुना यमिनी याम्या नर्मदा शतरुद्रिका ।
सरस्वती वेत्रवती रेवा रैवतकाश्रया ॥ ८७॥ (७८)

विपाशा पराहन्त्री च भाग्यदा भगमालिनी । (७९)
ऐरावती सरित्सिन्धुः शतद्रुः शतरुद्रिका ॥ ८८॥

वितस्ता सिन्धुरैन्द्री च विशोका पापनाशिनी ।
चन्द्रवती मधुमती सरयू चामरावती ॥ ८९॥

तापी हैमवती शीस चम्पा चम्पावती कुरू ।
कर्मनाशा च कावेरी कौशिकी कौशिकेश्वरी ॥ ९०॥

शुचिर्हैमवती हैमी गण्डकी देविका दितिः ।
अदितिर्विनता कद्रूः सभागा वीरभागिका ॥ ९१॥

सुधावती चर्मवती चर्मवत्यपि वेणुका ।
रत्नावती मणिमुखा नदीरूपा चिदीश्वरी ॥ ९२॥

वाराणसी शिवपुरी मयापुरी गुडी तथा ।
काञ्ची चोज्जयिनी प्रेय्या मथुराय च दुर्ल्लभा ॥ ९३॥

अयोध्यायां च सेव्या च द्वारिका दुर्गावासिनी ।
उड्डीयानावनिः कुड्या कामरूपनिवासिनी ॥ ९४॥ (७९)

हिङ्गुलापीठ्वासा च शारदापीठवासिनी ।
कुब्जिका पाश्चिमाम्नायवीरपीठनिवासिनि ॥ ९५॥ (८०)

श्यामाविद्या महाकाली दक्षिणाम्नायनायकी ।
उग्रचण्ड्युत्तराकाली उत्तराम्नायनयकी ॥ ९६॥

श्रीमहाषोडशी देवी परोर्ध्वाम्नायनायकी ।
पद्मावती नगविद्या चाधराम्नायनायकी ॥ ९७॥

षडाम्नायेश्वरी देवी पराशक्तिः समातृका ।
अकारनायकी चाम्बा चानन्तानन्दविग्रहा ॥ ९८॥

अम्बिकाम्बालिकानन्दा चाद्रिजाद्रिनिषेविता ।
अलोपाकालितानल्पा चाजिताजसमर्चिता ॥ ९९॥

अलिमाम्सस्वरूपा च अवर्णाकृतिवर्णिनी ।
आद्यात्मरूपिणी चाज्ञा आनन्दरसतर्पिता ॥ १००॥

आकारजितसर्वाशा आपायितपदाश्रया ।
आचारपञ्चकप्रीता आकारक्षरमतृका ॥ १०१॥ (८०)

इन्द्रस्तुत्या महेन्द्राक्षी इन्दिरेन्दीवरप्रदा ।
इडामङ्गलसम्भ्रान्त चेतिहासकथास्मृतिः ॥ १०२॥

इत्यपूजापरस्तृप्तिः इकारक्षरमातृका ।
ईश्वरप्रेयसी इशा ईईकाराक्षराश्रया ॥ १०३॥

उमा चोल्का चेरुहासा चोग्रवामाङ्गवासिनी ।
उल्लासनवरूपोक्षा विक्षारक्षरविग्रहा ॥ १०४॥

ऊष्मा ऊती उरुमति ऊस्वरोहा स्वरोत्तमा ।
ऋभु ऋक्षेश्वरी ऋत्या ऋमात्रा लृकृतिस्तिथा ॥ १०५॥

लृमातृका विभूषाढ्या योण्ठस्वरविनायकी ।
एणांशुमुकुटा चेणि चैणनेत्रा सवर्णिका ॥ १०६॥

ऐङ्कारबीजभूषाढ्या ऐहिकामुष्मिकप्रदा ।
ॐकाररूपिणी और्वा अंस्वरूपा स्वरोत्थिता ॥ १०७॥

अःस्वरुपपरम्ब्रह्मरूपीणी स्वरनायकी ।
कनकाङ्गदभूषा च कनकी कनकावती ॥ १०८॥

कठोराङ्गी कृपाकारा मोक्षदा च कृपावती ।
काश्मीरी काश्यपाकारा कारीका कलिकावती ॥ १०९॥

कादम्बरी कश्मला च कुजस्था कश्मलावती ।
कामेश्वरी काञ्चनाभा कामुकी कामुकावती ॥ ११०॥

काञ्चुकी कुड्मला कन्था केतकी कनकावती ।
कपेश्वरी कोपवती कपिला कपिलावती ॥ १११॥

करञ्जकुञ्जसंस्था च कम्पिला कम्पिलावती ।
केयूरहारशोभाढ्या किंशुकी किंशुकावती ॥ ११२॥

कोकिलालापरसिका कोकिली कोमलावती ।
कलङ्करहिता केश्या कलविङ्ककुलावती ॥ ११३॥

कुलाकुलपदेशानी कुरुकुल्लाधिदेवता ।
ककारमातृकादेवी ककारमातृकावती ॥ ११४॥

खड्गहस्ता खर्पराशी खटिला खटिलावती ।
खेटेश्वरी खगगतिः खड्गिनी खेटकावती ॥ ११५॥ (८२)

खञ्चनाक्षी खञ्जरीठी खंरूपा खञ्चनावती । (८३)
गोप्त्री गोपालवनिता गोदातीत गयावती ॥ ११६॥

गणेशजननी गुर्वी गुणगम्या गुणावती ।
गरुन्मणिर्मरीचिश्च गणना गणकेश्वरी ॥ ११७॥

घुर्घुरा घरटा घारी घटिका घटिकावती ।
घनेश्वरी घनेहा च घनवाहा घनावती ॥ ११८॥

ङान्ता ङवर्णासंस्था च वर्गिणी च ङमातृका ।
चामीकरप्रभा चान्द्री चटुला चटुलावती ॥ ११९॥

चमत्कृतिश्चन्द्रहासा चन्द्रामोदा चलावती ।
चञ्चश्चकोरनयना चकोरी कोरकावती ॥ १२०॥

चलत्पवनवेगा च चलिता चुलुकावती ।
छत्रेश्वरी छत्रधारा छात्रेक्षा छत्रिकावती ॥ १२१॥

छिन्नमस्ता छिन्नभूषा छटिला छटिलावती ।
जप्या जेया जयकरी जीवान्ता जीवनावती ॥ १२२॥ (८३)

जगज्जैत्रा जगद्रक्षा जगती जयिकावती । (८४)
जटिला जङ्गमेशानी जम्भाली जम्भलावती ॥ १२३॥

झङ्कारीर्जलदा छाया झिञ्झिणी झिञ्झिणावती ।
ञणुरूपा ञवर्णेशी ञकारा ञणिणावती ॥ १२४॥

टङ्कायुधा टिण्टिणिका टाङ्कारी टङ्कणावती ।
ठाकुरी ठकुरेशानी ठाक्षरा ठाक्षरावती ॥ १२५॥

डिण्डीरवल्लभा डीणा डकारा डिण्डिमावती ।
ढत्कृतिर्ढुण्ढुपीढाक्षी ढकारमातृकावती ॥ १२६॥

णिणीवामा णवर्णेशी णवर्णाक्षरमातृका ।
तपनी तापनी त्र्यक्षी तपनीयसमप्रभा ॥ १२७॥

तोतुला तिलकद्योतिस्तोटिका तिलकावती ।
तौटिल्पराहिता तामी तमिका तुटिलावती ॥ १२८॥

तामरी तोमरकरा तौतिली तुलसी तुरी ।
तटाकधरणी तुट्यास्तुटिस्तुम्बुरुनिःस्वना ॥ १२९॥ (८४)

ताण्डवीपरमप्रीता तुण्डघोणा तुलावती । (८५)
तरी तामरसद्योतिस्तरणी तरुणावती ॥ १३०॥

त्रुटन्माला त्रुटिहारा त्रपाला चपलावती ।
स्थालिका स्थाण्डिला स्थाणुः स्थविरा स्थविरावती ॥ १३१॥

दमनी दमदा दारा दम्भोलीभृद्वरप्रदा ।
दण्डहस्ता दयार्द्रा च दोलारूढा दुरावती ॥ १३२॥

दुन्दुनी दुन्दुशमनी दाम्भिकी दाम्भिकावती ।
दीनैकजननी दान्ता दिण्डिनी दण्डकावती ॥ १३३॥

द्रोहिणी द्रोहदा हर्त्री द्रुहिका द्रुहिकावती ।
द्राक्षारसप्रिया द्रोता दकारक्षरमातृका ॥ १३४॥

धन्या धनदसेव्या च धर्मिला धर्मिलावती ।
नर्मकर्मकरी नाली नलिनी नलिनावती ॥ १३५॥

नरनारीजनस्तुत्या नरनारायणप्रिया ।
नटेश्वरी नाट्यकरी नटिनी नटिकावती ॥ १३६॥

नागरजेन्द्रद्रयिता नागरी नागरावती ।
परम्परापीवराङ्गी पाठकी पीठिकावती ॥ १३७॥ (८६)

पाठा पदाम्बरधरा पदिनी पद्दिनावती ।
पदोदकाप्रिया पात्री पात्रजा पात्रिकावती ॥ १३८॥

परात्मिका परम्ब्राह्मी परमेश्वरवल्लभा ।
फुण्टिका फाण्टजा फान्ता फट्वर्णाक्षरमातृका ॥ १३९॥

बलन्धुरा बलकरी बलिदानवनाशिनी ।
बलोत्तरा बन्धकरी बन्धकी बन्धकावती ॥ १४०॥

बन्धुजा बान्धवप्रीता बर्बरी बर्बरावती ।
बगोला बन्धमुक्ता च बालकी बगलावती ॥ १४१॥

भगरूपा भगोल्लासा भागजा च भगावती ।
भगलिङ्गरसास्वादा भगलिङ्गामृतात्मिका ॥ १४२॥

भगरूपारतप्रीता भगिला भगलावती ।
मुद्रिका मोहमुद्रा च नवमुद्राप्रकाशिनी ॥ १४३॥

माद्यक्षीदुरसाक्षीवा मन्दुरा मोदकावती ।
मञ्जूषिका मञ्जुरवा मधुयष्टिर्मदावती ॥ १४४॥ (८६)

मधुमत्ता मदोद्धसा मोदकी मोदकावती । (८७)
मोदकाहारवरदा मोदिरा मद्रिकावती ॥ १४५॥

मनोवती मानसिकी मेठिका मण्ठिकावती ।
मैनाकवरदा मेधा मेरुजा मीनकावती ॥ १४६॥

यज्ञेश्वरीप्रिया यज्ञफलदा यज्ञकावती ।
यजमानप्रिया याज्ञयाजकी यज्ञकावती ॥ १४७॥

यष्टिहस्ता यन्त्रकरी याष्टिकी याष्टिकावती ।
यादस्पतिस्तुता योगजननी जनकावती ॥ १४८॥

रात्रिञ्चरक्षयकरी रात्रेश्वरनिषेविता ।
रोगकेहारिणी रावी रोलम्बा मधुरस्वना ॥ १४९॥

राजपूजा रटाला च रजसी राजिलावती ।
रजस्वला रजोरूपा रेतिजा रेतिलावती ॥ १५०॥

लक्ष्मिर्लालाकरी लोला लाङ्गलिशी लुलावती ।
लाक्ष्रसप्रभालुता लाङ्गलायुधसेविता ॥ १५१॥ (८७)

ललज्जिह्वा च लोलाक्षी लास्यहास्य विचक्षणा । (८८)
लम्बकेशावली लम्बरसना लम्बिकावती ॥ १५२॥

वशिनी वंशजा वंशी वसतिर्वशिकावती ।
शार्दूलचर्मवसना शम्बूककलिकावती ॥ १५२॥

शिर्दूलमध्या सारेशी शमदा शमिकावती ।
शौर्यप्रदा सूरमाता शौरिकी शौरिकावती ॥ १५३॥

षोडशी षोडशकला षडङ्गा षोडशाक्षरी ।
सतीमाता सत्रसाला सारसी सरसावती ॥ १५४॥

सुरसङ्घार्चिता सभ्या सभासेव्या सभावती ।
समस्तसुख सौभाग्या समस्त दुरितापहा ॥ १५५॥

समस्तसाधकस्तुत्या सर्वमङ्गलदायिनी ।
सरोजिनीधवद्योतिः सागरैकसुतासुरा ॥ १५६॥

सुरापानरसाला च सरला सरलावती ।
हूहूप्रिया च हुं बीजा हरिणी नयनाहुतिः ॥ १५७॥

होतृप्रिया हव्यभक्ष्या हविषा हविषावती ।
हालाहलप्रिया होला हलिनी हटिलावती ॥ १५८॥

होममाला हरिप्रीता हकाराक्षरमातृका ।
हयुषा हाटकद्योतिर्हेमकान्तिर्हलावती ॥ १५९॥

लक्षःस्वरूपा सदसच्चिदानन्देश्वरेश्वरी ।
दयावती सत्यवती यशोवत्यमरावती ॥ १६०॥

प्रभावती धनवती क्रियावत्यकलावती ।
मोहवती महवती स्तुवन्ती मल्लिकावती ॥ १६१॥

पार्वती पावनवती देवता श्रीधरावती ।
ॐ ह्रीं श्रीं ब्लूं च फट् स्वाहा पद्मा पद्मावतीश्वरी ॥ १६२॥

इति नाम्नां सहस्त्रं ते कथितं वीरवन्दिते ।
समस्तमतृकापूर्णसर्वक्षतु मनोहरे ॥ १६३॥

समस्ततिथिसम्पुर्णं मूलमन्त्रैकसाधनम् ।
देवि गुह्यतमं गुह्यं भवसागरतारणम् ॥ १६४॥

पापापहं महापुण्यं पुण्यदं पुण्यवर्धनम् ।
ब्रह्महत्यादिपापानां प्रायश्चित्तफलप्रदम् ॥ १६५॥

यःपठेत्पाठयेद्वापि श्रावयेद्वा श‍ृणेति यः ।
स लक्ष्मीभाजनं वीरो यशस्वी कुलनायकः ॥ १६६॥

तेजसः सुर्यसङ्काशो यशसः राघवोपमः ।
वलवान् वायुसदॄशो वागीशसदृशो गिरः ॥ १६७॥

नीत्या भार्गवसङ्काशो जपेन च विभूपमः ।
सौन्दर्येण स्मरः साक्षाच्छोभया च शशिप्रभः ॥ १६८॥

विभवेन शिवः साक्षाच्छ्रिया वैश्रवणोपमः ।
भृङ्गिरीज्योपमो भक्त्या शौर्येणेन्द्रोपमो भुवि ॥ १६९॥

बहुनोक्तेन किं देवि स साक्षाद्भैरवोपमः ।
यः पठेद्वीरपूजायामानन्दरसघूर्णितः ॥ १७०॥

दशवारं त्रिवारं वा प्रयोगार्हो भवेत्तु सः ।
श्मशाने चक्रपूजायां यः पठेच्छक्तिसन्निधौ ॥ १७१॥

स पुरश्चरणैकस्य फलमश्नाति साधकः । (९०)
यः पठेच्छक्तिभोगान्ते जप्त्वा मूलं दशांशतः ॥ १७२॥ (९१)

तस्य तत्र शयानस्य देवी दर्शनमेष्यति ।
यः पठेछून्यसदने मदिरानन्दनिर्भरः ॥ १७३॥

त्रिवारं दशधा जप्त्वा स भवेद्विभवास्पदम् ।
सर्पं दृष्ट्वा जपेन्मूलं पठेन्नामसहस्रकम् ॥ १७४॥

अष्टगन्धेन पुण्येन मातृकावेष्टितं लिखेत् ।
रक्ततन्तुनिबद्धं च लाक्षया परिवेष्टयेत् ॥ १७५॥

सौवर्णेनाथ संवेष्ट्य पञ्चगव्येन शोधयेत् ।
कुमारीपूजनं कृत्वा धारयेन्मूर्ध्नि वा भुजे ॥ १७६॥

योषिद्वामकरेवद्ध्वा पुरुषो दक्षिणे भुजे ।
रणे रिपून् जयेद्बीरो मघवत्तुल्पविक्रमान् ॥ १७७॥

जित्वा समस्तधरणीं सार्वभौमो भविष्यति ।
वन्धापि लभते पुत्रान् मृतवत्सा चिरायुषः ॥ १७८॥

काकवन्ध्या पूर्णगर्भा पुत्रं प्राप्नोति निश्चितम् । (९१)
भौमवारे जपेद्विद्यां पठेन्नामसहस्रकम् ॥ १७९॥ (९२)

भजेद्रामां रतां ते तु लभेत्कामान्यथेप्सितान् ।
सङ्क्रान्तौ भूमिकम्पे वा ग्रहणे चन्द्रसूर्ययोः ॥ १८०॥

त्रिवारं साधको देवि पठेन्नामसहस्रकम् ।
धनवान् जयवांल्लोके भवेद्भैरव एव सः ॥ १८१॥

श्मशानेषु जपेद्विद्यां पठेत्कवचमुत्तमम् ।
मन्त्रनामसहस्रं च स्तोत्रं परमदुर्लभम् ॥ १८२॥

इहलोकेश्रियं भुक्त्वा परत्रेष्टं पदं लभेत् ।
इति पद्मावती देव्या मन्त्रनामसहस्रकम् ॥ १८३॥

रहस्यं सर्वसर्वस्वं सारात्सारोत्तमोत्तमम् ।
तत्त्वात्तत्त्वतमं गोप्यं तन्त्रयन्त्रालयं परम् ॥ १८४॥

अदातव्यं कुचैलाय निन्दकाय दुरात्मने ।
वीरलोकैकभ्रष्टाय वीरनिन्दापराय च ॥ १८५॥

गुरुभक्तिविहीनाय परशक्तिरताय च ।
अभक्ताय न दातव्यं न दातव्यं महेश्वरि ॥ १८६॥ (९२)

देयं शिष्याय शान्ताय दीक्षिताय परात्मने । (९३)
तस्य वित्तर्धिविभवे भोगमोक्षादि सिद्धयः ॥ १८७॥

इदं सारं हि तन्त्राणां मन्त्राणां मन्त्रतत्त्वकम् ।
पद्मावती प्रियतरं मन्त्रनामसहस्रकम् ॥ १८९॥

गुह्यं गोप्यतरं गोप्यं गुह्याद्गुह्यतमोत्तमम् ।
सर्वस्वं मे रहस्यं मे गोपनीयं स्वयोनिवत् ॥ १९०॥

इति श्रीदेवीयमले तन्त्रे उमामहेश्वरसंवादे षडाम्नायप्रदीपिकायां
पद्मावतीसहस्रनामस्तोत्रं समाप्तम् ॥




Post a Comment

0 Comments