Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Dhanda Stotram- धनदा स्तोत्रम्

Dhanda Stotram- धनदा स्तोत्रम्



श्री शिव उवाच
अथातः सम्प्रवक्ष्यामि धनदास्तोत्रमुत्तमम्
यथोक्तं सर्वतन्त्रेषु इदानी तत् प्रकाशितम् ॥
नमः सर्वस्वरुपेण नमः कल्याणदायिके।
महासम्पत्प्रदे देवि धनदायै नमोऽस्तुते ||
महाभोगप्रदे देवि महाकामप्रपूरितें।
सुखमोक्षप्रदे देवि धनदायै नौऽस्तुते ||
'ब्रह्मरूपे सदानन्दे सदानन्दस्वरुपिणि ।
द्रुतसिद्धिप्रदे देवि धनदायै नमोऽस्तुते ||
उद्यत्सूर्यप्रकाशाभे उद्यदादित्यमण्डले
शिवतत्त्वप्रदे देवि धनदायै नमोऽस्तुते ||
विष्णुरुपे विश्वमते विश्वपालनकारिणि
महासत्वगुणाक्रान्ते धनदायै नमोऽस्तुते॥
शिवरुपे शिवानन्दे कारणानन्द - विहे |
विश्वसंहाररुपे च धनदायै नमोऽस्तुते ||
पञ्चतत्त्वस्वरुपे च पञ्चाचार - सदारते |
साधकाभीष्टदे देविधनदायै नमोऽस्तुते ||
इदं स्तोत्रं मया प्रोक्तं साधकाभिष्टदायकम् |
यः पठेतू पाठयेदूवापि स नभेत सकल फलम्॥
त्रिसन्ध्यं यः पठेन्नित्यं स्तोत्रमैतत् समाहितः ।
स सिद्धिं लभते शीघ्रं नात्र कार्या विचारणा ||
इदं रहस्यं परमं स्तोत्रं परमदुर्नभम् ।
गोपनीय प्रयत्नेन स्वयोनिरिव पार्वति ||
अप्रकाश्यमिदं देवि गोपनीयं परात्परम् |
प्रपठेन्नात्र सन्देहो धनवान् जायतेऽचिरात् ||
॥ इति धनदास्तोत्रम् सम्पूर्णम् ॥



Post a Comment

0 Comments