Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Shri Yugalashtakamश्री युगलाष्टकम्

 Shri Yugalashtakamश्री युगलाष्टकम्





कृष्णप्रेममयी राधा राधाप्रेम मयो हरिः।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥1॥

कृष्णस्य द्रविणं राधा राधायाः द्रविणं हरिः।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥ 2 ॥

कृष्णप्राणमयी राधा राधाप्राणमयो हरिः।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥ 3 ॥

कृष्णद्रवामयी राधा राधाद्रवामयो हरिः।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥4॥

कृष्ण गेहे स्थिता राधा राधा गेहे स्थितो हरिः।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥ 5 ॥

कृष्णचित्तस्थिता राधा राधाचित्स्थितो हरिः।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥ 6 ॥

नीलाम्बरा धरा राधा पीताम्बरो धरो हरिः।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥ 7 ॥

वृन्दावनेश्वरी राधा कृष्णो वृन्दावनेश्वरः।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥8॥

|| श्री युगलाष्टकम् सम्पूर्ण ||




Post a Comment

0 Comments