Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Vedasara Shivastavah- वेदसार शिवस्तव

Vedasara Shivastavah- वेदसार शिवस्तव





पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम् |

जटाजूटमध्ये स्फूरदगाङ्गवारिं महादेवमे स्मरामि स्मरारिम् || १ ||

महेशं सुरेशं सुरारार्तिनाशं विभुं विश्वनाथं विभूत्यैगभूषम् |

विरुपाक्षमिन्दवर्कवहिनत्रिनेत्रं सदानन्दमीडे प्रभु पञ्चवक्त्रम् ||२||

गिरीशं गणेशं गने नीलवर्णं गवेन्द्राधिष्टं गणातीतरुपम् ।

भवं भास्वरं भस्मना भूषिताङ्गं भवानीकलनं भजे पञ्चवक्त्रम् ||३||

शिवाकान्त शम्भो शशाङ्कार्धमौले महेशान शूनीन् जटाजूटधारिन् ।

त्वमेको जगद्व्यापको विश्वरुप प्रसीद प्रसीद प्रभो पूर्णरुप || ४ ||

परात्मानमेकं जगबीजमादयं निरीहं निराकारमोंकारवेदयम् |

यतो जायते पान्यते येन विश्वं तमीशं भजे नीयते यत्र विश्वम् ॥५॥

न भूमिर्न चापो न बहिनन वायुर्न चाकाशमास्ते न तन्द्रा न निद्रा |

न ग्रीष्मो न शीतं न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे || ६ ||

अजं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानाम् |

तुरीयं तमःपारमाद्यन्तहीनं प्रपद्ये परं पावनं दैतहीनम् ॥ ७॥

नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानन्दमूर्ते।

नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य ||८||

प्रभो शूलपाणे विभो विश्वनाथ महादेव शम्भो महेश त्रिनेत्र|

शिवाकान्त शान्त स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्यः ||९||

शम्भो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन् ।

काशीपते करुणया जगदेतदेकस्त्वं हंसि पासि विदधासि महेश्वरोऽसि ||१०||

त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगन्मृड विश्वनाथ |

त्वय्येव गच्छति लयं जगदेतदीश बिगात्मकं हर चराचरविश्वरुपिन् ॥ १९ ॥

|| अस्तु॥




Post a Comment

0 Comments