Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Puranokt Purush Suktam-पुराणोक्त पुरुषसूक्त

Puranokt Purush Suktam-पुराणोक्त पुरुषसूक्त





ह्रीं जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन |
नमस्तेस्तु हृषिकेश महापुरुषपूर्वज ॥ १॥
नमो हिरण्यगर्भाय प्रधानाव्यक्तरूपिणे|
ह्रीं नमो वासुदेवाय शुद्धज्ञानस्वरूपिणे ॥२॥
देवानां दानवानां च सामान्यमसि दैवतम्।
सर्वदा चरणद्वन्द्वं व्रजामि शरणं तव || ३ ||
एकस्त्वमसि लोकस्य स्त्रष्टा संहारकस्तथा ।
अव्यक्तश्चानुमन्ता च गुणमायासमावृतः॥४॥
संसारसागरं घोरमनन्तं क्लेशभाजनम्।
त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः॥५॥
न ते रूपं न चाकारो नायुधानि चास्पदम्।
तथापि पुरुषाकारो भक्ताना त्वं प्रकाशसे ॥६॥
नैव किञ्चित्परोक्षं ते प्रत्यक्षोऽसि न कस्यचित् |
नैव किञ्चिदसिद्धं ते न च सिद्धोऽसि कस्यचित्। ||७||
कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ।
योगिनां परमासिद्धिः परमं ते पदं विदुः॥८॥
अहं भीतोऽस्मि देवेश संसारेऽस्मिन्भयावहे।
त्राहि मां पुण्डरीकाक्ष न जाने शरणं परम् ॥९॥
कालेश्वपि च सर्वेषु दिक्षु सर्वासु चाच्युत।
शरीरे च गृहे चापि वर्तते में महद्भयम् ॥१०॥
त्वत्पादकमलादन्यन्न में जन्मान्तरेष्वपि ।
निमित्तं कुशलस्यास्ति येन गच्छामि सद्गतिम् ॥ ११ ॥
विज्ञानं यदिदं प्राप्तं यदिदं ज्ञानमर्जितम् |
जन्मान्तरेऽपि में देव माभूदस्य परिक्षयः॥१२॥
विज्ञानं यदिदं प्राप्तं यदिदं ज्ञानमर्जितम् |
जन्मान्तरेऽपि में देव माभूदस्य परिक्षयः॥१२॥
दुर्गतावपि जातायां त्वं गतिस्त्वं मतिर्मम |
यदि नाथं च(न) विन्देयं तावताऽस्मि कृती सदा || १३ ||
अकामकनुषं चित्तं मम ते पादयोः स्थितम् |
कामये विष्णुपादौ तु सर्वजन्मसु केवनम् || १४ ॥
पुरुषस्य हरैः सूक्त स्वयं धन्यं यज्ञस्करम् ।
आत्मज्ञानमिदं पुण्यं योगज्ञानमिदं परम् || १५ ||
इत्येवमनया स्तुत्या स्तुत्वा देवं दिने दिने |
किंकरोऽस्मीति चात्मानं देवायैव निवेदयेत् || १६ ||
फलाहारो जपेन्मासं पश्यन्नात्मानमात्मनि |
फनानि भुक्त्वोपवसेन्मासमद्भिश्च वर्तयेत् || १७ ||
अरण्ये निवसेन्नित्यं जपन्निदमृषिः सदा |
ऋम्भिस्त्रिवषणं काले यजेदप्सु समाहितः॥ १८ ॥
आदित्यमुपतिष्ठेत सूक्तेनानेन नित्यशः।
आज्याहुतेनैव हुत्वा चिन्तयेद्ऋषिभिस्तथा ||१९||
ऊर्ध्वं मासात्फलाहारस्त्रिभिर्वषैर्जपेदिदम् ।
तद्भत्त्कस्तन्मना युक्तो दशवर्षाण्यनन्यभाक् || २०॥
साक्षात्पश्यति तं देवं नारायणमनामयम् |
ग्राहयमत्यन्तयत्नेन स्त्रष्टारं जगतोऽव्ययम् || २१ ||
अथवा साधमानोऽपि भक्तिं न परिहापयेत् |
भक्तानुकम्पी भगवाञ्जायते पुरुषोत्तमः || २२ ||
येन येन च कामेन जपेत् प्रयतः सदा |
स स कामः समृद्धः स्याच्छ्रधानस्य कुर्वतः || २३ ||
होमं वाऽप्यथवा जाप्यमुपहारमनुत्तमम् ।
कुर्वीत येन कामेन तत्सिद्धिमवधारयेत् || २४ ॥
॥ इति श्रीपुराणोक्त पुरुषसूक्तम् ॥





Post a Comment

0 Comments