akulavIra Tantram- अकुलवीर तन्त्रम्
श्रीमच्छन्दपादकेभ्यो नमः ।
श्रीमीनसहजनन्दं स्वकीयाङ्गसमुद्भवम् ।
सर्वमाधारगम्भीरमचलं व्यपकं परम् ।
अथातः सम्प्रवयामि अकुलवीरं महद्भूतम् ।
गुह्याद् गुह्यतरं गुह्यं सिद्धसद्भावसन्ततिः ॥ १॥
अनग्रहाय लोकानां सिद्धनाथेन भाषितम् ।
गोपनीयं प्रयत्नेन यदीच्छन् शाश्वतं पदम् ॥ २॥
संसारार्णवमग्नातां भूतानां महदाश्रयम् ।
यथा नदीनदाः सर्वे सागरे समुपागताः ॥ ३॥
तथा अकुलवीरेषु सर्वधर्मा लयङ्गताः ।
सर्वाधारमशेषस्य जगतः सर्वदा प्रभुः ॥ ४॥
सहजानन्दं न विन्दन्ति सर्वधर्मसमासृताः ।
अनानन्तमलैर्ग्रस्ता महामायान्धच्छदिताः ॥ ५॥
शास्त्रजालेन सन्तुष्टा मोहितास्त्यजयन्तिताः (?) ।
न विन्दन्ति पदं शान्तं कौलानां निष्कलं गुरुम् ॥ ६॥
संवादयन्ति ये केचिन् न्यायवैशेषिकास्तथा ।
बौधास्तु अरिहन्ता ये सोमसिद्धान्तवादिनः ॥ ७॥
मीमांस पञ्चस्त्रोताश्च वामसिद्धान्तदक्षिणाः ।
इतिहासपुराणञ्च भूततत्त्वन्तु गारुडम् ॥ ८॥
एभिः शैवागमैः सर्वैः परोक्षञ्च क्रियान्विताइः ।
सविकल्पसिद्धिर्सञ्चारन्तत् सर्वं पापबन्धवित् ॥ ९॥
विकल्पबहुलाः सर्वैर्मिथ्यावादा निरर्थकाः ।
न ते मुञ्चन्ति संसारे अकुलवीरविवर्जिताः ॥ १०॥
सर्वज्ञं सर्वमासृत्य सर्वतो हितलक्षणम् ।
सर्वेषां सिद्धिस्तत्रस्था सर्वसिद्धिञ्च तत्र वै ॥ ११॥
यत्नासौ अकुलवीरो दृश्यते सर्वतोमुखम् ।
तं विदित्वा परं रूपं मनो निश्चलतां व्रजेत् ॥ १२॥
शब्दरूपरसस्पर्शगन्धञ्चैवात्र पञ्चमम् ।
सर्वभावाश्च तत्रैव प्रलीणाः प्रलयं गताः ॥ १३॥
भावाभावविनिर्मुक्त उदयास्तमनवर्जितः ।
स्वभावमतिमतं शान्तं मनो यस्य मनोमयम् ॥ १४॥
अकुलवीरमिति ख्यातं सर्वाधारपापरम् ।
नाधारलक्षभेदन्तु न नादगोचरे पठेत् ॥ १५॥
हृदि स्थाने न वक्त्रे च घण्टिका तालरन्ध्रके ।
न इडा पिङ्गला शान्ता न चास्तीति गमागमे ॥ १६॥
न नाभिचक्रकण्ठे च न शिरे नैव मस्तके ।
तथा चक्षुरुन्मीलने च न नासाग्रनिरीक्षणे ॥ १७॥
न पूरककुम्भके तत्र रेचके [च] तथा पुनः ।
न बिन्दुभेदके ग्रन्थौ ललाटे न तु वह्निके ॥ १८॥
प्रवेशनिर्गमे नैव नावाहनविसर्जनम् ।
न करणैर्नासनं मुद्रैर्नमासे भिन्नतालुके ॥ १९॥
न निरोधो न चोद्धारो नातीतां चालनं न हि ।
न प्रेर्यप्रेरकञ्चैव न स्थानन्नैव चश्रयम् ॥ २०॥
न चात्मनैव तद् ग्राह्यं ग्राह्यातीतपदं भवेत् ।
एतत् पक्षविर्निर्मुक्तं हेतुदृष्टान्तवर्जितम् ॥ २१॥
न दूरे न च वै निकटे न भरितो न च रिक्तकः ।
न उन्नोन सोऽधिक एभिः पक्षैर्विवर्जितम् ॥ २२॥
यश्च विंशात्मको ह्येष पुद्गल नास्ति यत्र वै ।
यत्र लक्षं न विद्येत अकुलवीर स उच्च्यते ॥ २३॥
यस्यैवं संशितं कऽश्चित् समरस संशितः ।
स ब्रह्मा सो हरिश्चैशः स रुद्रो स च ईश्वरः ॥ २४॥
स शिवः परमदेवः स सोमार्काग्निकस्तथा ।
स च साङ्ख्यः पुराणाश्च अर्हन्तबुद्ध एव च ॥ २५॥
स्वयं देवी स्वयं देवः स्वयं शिष्यः स्वयं गुरुः ।
स्वयं ध्यानं स्वयं ध्याता स्वयं सर्वत्र देवता ॥ २६॥
यादृशेन तु भावेन पुरुषो भावयेत् सदा ।
तादृशां फलमाव्प्नोति नात्र कार्यविचारणात् ॥ २७॥
अस्यैव हि हि नामानि पृथग्भूतानि योगिभिः ।
अनाम तस्य गियन्ते भ्रान्तिज्ञानविमोहितैः ॥ २८॥
धर्माधर्मसमाक्लिष्टाविकल्पतमश्छादिताः ।
तेन मुञ्चन्ति संसारं नरकं योनिसङ्कुलम् ॥ २९॥
अकुलवीरं महद्भूतं यदा पश्यन्ति सर्वगम् ।
स बाह्याभ्यन्तरे नित्यं एकाकारं चराचरम् ॥ ३०॥
निस्तरङ्गं निराभासं पदभेदविवर्जितम् ।
सर्वावयवनिर्मुक्तं निर्लयं निर्वकारजम् ॥ ३१॥
अदृष्टनिर्गुणं शान्तं तत्त्वातीतं निरञ्जनम् ।
सर्वज्ञं परिपूर्णञ्च स्वभावश्चैवमक्षयम् ॥ ३२॥
कार्यकारणनिर्मुक्तमचिन्त्यमनामयम् ।
मायातीतं निरालम्बं व्यापकं सर्वतोमुखम् ॥ ३३॥
समत्वं एकभूतञ्च ऊहापोहविवर्जितम् ।
अकुलवीरं महद्भूतं अस्तिनास्तिविवर्जितम् ॥ ३४॥
न मनो न च वै बुद्धिर्न चिन्ताचेतनादिकम् ।
न कालः कलनाशक्तिर्न शिवो न च इन्द्रियः ॥ ३५॥
न भूते गृह्यते सो हि न सुखं दुःखमेव च ।
न रसो हि न सुखं दुःखमेव च ॥ ३६॥
न रसो विरसश्चैव न कृतो न च जायते ।
न च्छाय न च तापस्तु न शीतो न च उष्णवान् ॥ ३७॥
न दृश्यते मन स्तत्र उदयास्तमनवर्जितम् ।
न सीमा दृश्यते तत्र न च तिर्थ्यं न चहिवहि ॥ ३८॥
अद्वैतमचलं शान्तं सङ्गदोषविवर्जितम् ।
निराकुलं निर्विकल्पञ्च निबद्धञ्च मलक्षणम् ॥ ३९॥
अनाथं सर्वनाथञ्च उन्मनां मदवर्जितम् ।
अनिगृढमसन्धिञ्च स्थावरं जङ्गमेव च ॥ ४०॥
ज्वलज्वलनभूम्या च आपोञ्चैव तथैव च ।
सर्वं समरसं पूर्णं अकुलवीरन्तु केवलम् ॥ ४१॥
यस्यैषा सम्।स्थिता मुक्तिः स मुक्तो भवबन्धनात् ।
न तस्य मातापिता व बान्धवं न च देवता ॥ ४२॥
न यज्ञं नोपवासञ्च न क्रिया वर्णभेदकम् ।
त्यक्त्वा विकल्पस।घातं अकुलवीरलयं गताः ॥ ४३॥
न जपो नार्चनं स्नानं न होमं नैव साधनम् ।
अग्निप्रवेशनं नास्ति हेतन्तभृगु नोदनम् ॥ ४४॥
नियमोऽपि न तस्यास्ति नोपवासो विधीयते ।
पितृकार्यं न करोताति तीर्थयात्राव्रतानि च ॥ ४५॥
धर्माधर्मफलं नास्ति न स्नानं नोदकक्रिया ।
स्वयं त्यज सर्वकार्याणि लोकाचाराणि यानि च ॥ ४६॥
समयाचारविचारञ्च कृतका बन्धकानि तु ।
सङ्कल्पञ्च निकल्पञ्च ये चान्ये किल धर्मिणः ॥ ४७॥
भवे योगी निराचारो पशुचारविवर्जितः ।
सिद्धिश्चविविधाकार पाताले च रसायनम् ॥ ४८॥
प्रत्यक्षञ्च या लब्धं न गृह्नीयात् कदाचन ।
सर्वञ्च पाशजालञ्च अधोमार्गप्रदायकः ॥ ४९॥
एतेषु मोचना नास्ति अकुलवीरविवर्जिताः ।
यथा मृताः न जानन्ति स्वादं कटुमधुरस्य तु ॥ ५०॥
तथा अकुलवीरन्तु न जानन्ति स्वभावगम् ।
यथा मदिरा महान्तस्य कथितं नेवशकृते ॥ ५१॥
रस्यपरमानन्दमतिगुह्यं सुगोपितम् ।
लोकानां च हितार्थाय सिद्धनाथेन भाषितम् ॥ ५२॥
निर्विकल्पं पदं शान्तं यत्र लीनं परापरम् ।
मोक्षस्य तन्महास्थानं मन्त्ररूपविवर्जितम् ॥ ५३॥
तत्रैव सृष्टिरूपेण पुनस्तत्र लयं गता ।
किन्तेन बहुनोक्तेन सर्वबन्धविवर्जितम् ॥ ५४॥
अकुलवीरं यदा लब्धं तदा किं कौलिकैः क्रमैः ।
लभ्द्वा तु मोक्षसद्भावं अकुलवीरं महापहम् ॥५५॥
कौलमार्गे द्वयो सन्ति कृतका सहजा तथा ।
कुण्डलि कृतका ज्ञेया सहजा समरस स्थिता ॥ ५६॥
प्रेर्यप्रेरकभावस्था कृतका साऽभिधीयते ।
ततः स पातयेद् भूमै मुद्रामन्त्रैर्नियोगितैः ॥ ५७॥
आहुते पतने चान्ये कर्णजापेन धूपकैः ।
एतत् साध्यमिदं तत्त्वं एतद् ध्यानञ्च धारणा ॥ ५८॥
अनेकैः कर्मसङ्घातैः नानामार्गविभावनैः ।
विकल्पकललोल्लोया उद्भ्रान्ता भ्रान्तचेतसः ॥ ५९॥
हृदि शोकेन सन्तप्ता व्यासङ्गाच्च महाभयैः ।
हर्षविषादसम्पन्ना शोच्यमाना मुहुर्मुहुः ॥ ६०॥
तावद्भ्रमन्ति संसारे कल्पाकल्पैर्भवार्णवैः ।
दग्धबीजेषु सम्भूतिर्यथा नैव प्रजायते ॥ ६१॥
मूलछिन्ने यथा वृक्षे न प्ररोहं विद्यते ।
अकुलवीरगतं भिन्नं नानाभावानुबन्धनैः ॥ ६२॥
न बध्यते यथा विमले रसं विप्रलयं गतम् ।
तद्वदकुलवीरे च सत्त्वे भ्राभ्राख्य यद्गतः ॥ ६३॥
तिमिरेण यथाच्छन्नमुदितार्कं न पश्यति ।
अज्ञानमनस्तद्वद् भ्रान्तिजालविमोहिता ॥ ६४॥
अकुले वीरे च सम्प्राप्ते सर्वमेतद्विनिश्यति ।
दधिमधे यथा सर्पिः काष्ठे चाग्नि स्थितो यथा ॥ ६५॥
पुष्पे गन्धस्तिले तैलं वृक्षे चाया समाश्रिता ।
मद्यमध्ये यथानन्दं दीपे प्रभा समाश्रिता ॥ ६६॥
पद्ममध्ये च कुण्डल्या अङ्गप्रत्यङ्गमेव च ।
रक्तार्थाकुलवीरे च तत्सर्वं विनियोजितम् ॥ ६७॥
भावाऽभावादिसम्।युक्तैः प्रत्ययैर्द्दृष्टिगोचरैः ।
अकुलवीरं न जानन्ति कृतकैर्मोहितात्मनः ॥ ६८॥
पाशजालनिबद्धाश्च महामायविमोहिताः ।
न जानन्ति पदं शान्तमचिन्त्यं नित्यसम्भवः ॥ ६९॥
सर्वव्यापिभावस्थं स्थानवर्णविवर्जितम् ।
सर्वभूतस्थितं ह्येकमध्ययं धेयवर्जितम् ॥ ७०॥
स च सर्वगतो भावः स्थिरे पूर्णो निरन्तरे ।
तत्र मनो विलीनन्तु अचलं भवतन्मयम् ॥ ७१॥
मनोवृद्धिस्तथा चिन्त्यं क्षिप्ता तन्मयतां गता ।
यथा तिष्ठति तत्त्वस्थः शिवनिष्कलमव्यये ॥ ७२॥
तदा तन्मयतां याति निर्मलं निश्चलं पदम् ।
अकुलवीरं महद्भुतमेकवीरं च सर्वगम् ॥ ७३॥
दुर्लभं सुरसिद्धानां योगिनीनाञ्च गोचरम् ।
केचिद् वदन्तीदं धर्ममिदं शास्त्रमिदं तपः ॥ ७४॥
अयं लोकमिमं स्वर्गमिदं साध्यमिदं फलम् ।
इदं ज्ञानञ्च विज्ञानं शुद्धाशुद्धमिदं परम् ॥ ७५॥
ज्ञेयञ्च तत्त्वकूटञ्च यत्र ध्यानञ्च धारणा ।
तदासौ योगिनी ह्येकः नान्यस्तु हि द्वितीयकः ॥ ७६॥
अनागतन्तु गतञ्चैव न हच्छेन्न च तिष्ठति ।
न भूतं न भविष्यञ्च स्थितिप्रलयवर्जितम् ॥ ७७॥
न चाहं प्रचितैर्दोषैः लिप्तते न कदाचन ।
नाहं कश्चिन्न मे कश्चिन्न बद्धो न च बाधकः ॥ ७८॥
न मुक्ति वै न च न मुक्तमे मोक्षस्य च स्पृहा ।
गच्छंस्तिष्ठन् स्थपन् जाग्रद्भूञ्जानओ मैथुनेऽपि वा ॥ ७९॥
भयदारिद्रशोकैश्च विविधैर्भक्षणैस्तथा ।
चिकित्सा नैव कुर्वीत इन्द्रियार्थैः कदाचन ॥ ८०॥
आचरेत् सर्ववर्णैस्तु न तु भक्ष्यं विचारयेत् ।
एवं स चरते योगी यथारण्ये हुताशनः ॥ ८१॥
पिण्डबधाञ्च नानास्ति अवस्था मुर्खवासनाम् ।
सोमशून्यस्तथा वह्निप्राणायमवर्जितम् ॥ ८२॥
अप्रमेयनिराभासं धारणाध्यानवर्जितम् ।
येन जन्मसहस्राणि भक्त्या सम्पूजितो गुरुः ॥ ८३॥
ते लभन्ति महाज्ञानं अकुलवीरन्तु मोक्षदम् ।
योगिनीराकिणीचक्रे यस्य भक्तिः सुनिश्चला ॥ ८४॥
अकुलवीरं महद्भूतं गम्भीरं गहनामयम् ।
पिण्डातीतं यदा ज्ञेयमपिण्डं पिण्डवर्जितम् ॥ ८५॥
पदव्यञ्जननिर्मुक्तं विमलं सततोदितम्।
तल्लिने तन्मयात्मानं विन्दते श्वाश्वतं पदम् ॥ ८६॥
चितातीतं भवेत् सो हि योगसंयोगवर्जितम् ।
निर्वाणं वासनाहीनं तृप्तात्म च निरामयः ॥ ८७॥
तेन लब्धा न सन्देहोऽमला मलच्छेदनाः ।
तस्य प्रवर्त्तते क्षिप्तं तस्यैव सर्वसर्वगम् ॥ ८८॥
वेदसिद्धान्तशास्त्राणि नानाविधानि शिखानि च ।
तानि सर्वाणि मोहानि कायक्लेशैर्निरर्थकम् ॥ ८९॥
विद्याहञ्ख़ारग्रस्तास्तु गर्विताः कुगतिं गताः ।
अनर्थेन च सन्तुष्टा बहुग्रन्थार्थचिन्तकाः ॥ ९०॥
अकुलवीरं न विन्दन्ति कृतकैर्मोहितामनः ।
गर्वितानं कुतो ज्ञानं ग्रन्थकोटिशतैरपि ॥ ९१॥
कर्पूरकुङ्कुमादीनां वस्त्रताम्बूलमेव च ।
खरवद्भवति तद्भारं सर्वं तस्य निरर्थकम् ।
अकुलवीरञ्च देहस्थं यदा पश्यति सर्वगम् ॥ ९२॥
धर्माधर्मफलं नास्ति नोदकं तीर्थसेवना ।
न क्रिया सत्यश्चैवं वा कर्मकाण्डे न भावना ॥ ९३॥
न तस्य कर्मकर्माणि लोकाचाराणि यानि च ।
चरिताः समयाचारा जनैर्भ्रान्तिविमोहितैः ॥ ९४॥
अकुलवीरं न जानन्ति किं विशिष्टं कुतः स्थितम् ।
कृतका बन्धना लोके कल्पिताश्च कुपण्डितैः ॥ ९५॥
सम्।कल्पविकल्पञ्च कलाकर्माणि यानि च ।
सिद्धयो विविधा लोके पातालं च रसायनम् ॥ ९६॥
प्रत्यक्षञ्च यदा लब्धं न विगृह्णीयात् कदाचन ।
सर्वे ते पाशबद्धाश्च अधोमार्गप्रदायकाः ॥ ९७॥
न चैतैर्मुक्तिः सम्।सारे अकुलं बीरवर्जिताः ।
यथा मदिरमानन्दं कथितं नैव जायते ॥ ९८॥
तद्वदकुलवीराख्यं स्वसम्।वेद्यनिरोपणम् ।
न जानन्ति नरा मूढाः सारात् सारतरं परम् ॥ ९९॥
तावद् भ्रान्तिविमुग्धात्मा यावत्तलं न विन्दति ।
चितातीते यदा योगी स योगी योगचिन्तकः ॥ १००॥

0 Comments
I am always there with you hari om