Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Shri Tara Sahasranama Stotram-श्रीतारासहस्रनामस्तोत्रम्

 Shri Tara Sahasranama Stotram-श्रीतारासहस्रनामस्तोत्रम् 





श्रीगणेशाय नमः ।

हिमवदुत्तरे पार्श्वे देवदेवं सदाशिवम् ।

अम्बाश्चरूपिणं शान्तं नितान्तं योगिनी प्रियम् ॥ १॥


मुदारहसितं प्रीत्या शम्भु पृच्छति कालिका ।

कालिका उवाचः ।

अनाद्यन्तं महाकाल कालातीत परात्परः ।

कलौसिद्धि क्षणार्धेन कथं भवति तद्वदः ॥ २॥


कलौपाय समाकीर्णे सर्वधर्म विवर्जिते ।

साधकानां कथं सिद्धि चतुर्वर्गार्थसाधनम् ॥ ३॥


गतराज्यं महाराज्यं पदं सर्वार्थसाधनम् ।

वाञ्च्छासिद्धि कल्पनिकी मनोरथमयी परः ॥ ४॥


शक्तिपाल त्रिकालत्वं अष्टसिद्धिश्वरात्मकम् ।

कथं भवति विश्वेश तन्मेवद शिवप्रभो ॥ ५॥


शिव उवाचः ।

देवदेव महादेव सर्वदेव प्रपूजते ।

भक्तप्राण प्रिये साध्वी ममहं जिवनौषधि ॥ ६॥


रहस्यातिरहस्यं च कथं तत्प्रवदामिते ।

एतावत्काल पर्यन्तं गोपितं सर्व जन्तुषु ॥ ७॥


तद्रहस्यं महादेवि कथं तव वदाम्यहम् ।

त्वं च गोपयसिप्राज्ञेततेतर्हि वदाम्यहम् ॥ ८॥


कालिका उवाच ।

न प्रकाशौ देवेश ममिभ्युवायापिनोप्रभो ।

शिव उवाचः ।

विनापुष्पं विनागन्धं विनादानं विनाशिवे ॥ ९॥


विनामन्त्रं विनाजाप्यं विनाध्यानं विनाबलिम् ।

भूतशुद्धिविना द्रव्यंहोमशुद्धिविना प्रिये ॥ १०॥


येनसिद्धि क्षणार्धेन तदेव कथते महः ।

महानिलगिरौपूर्वं महाचोलहृदस्थिताः ॥ ११॥


तस्यत्रोत्तर भगेतुरा कुण्डाभिधं स्थितम् ।

तत्कुण्डे श्रीमहातारा विधाराती प्रतिष्ठिताः ॥ १२॥


कदाचितत्र सदसिसदस्था देवतागणात् ।

दृष्ट्वा तारामहाविद्या स्वमेवाव शरन्ददौ ॥ १३॥


ब्रह्मविष्णुमहेशानां कोटिनां तत्रकोटयः ।

कोटिवक्त्र विरञ्चाद्या महेन्द्राणां मनन्तकम् ॥ १४॥


महाविद्या महामन्त्रा हवनताश्चस मागताः ।

समस्तां स्तांश्च संविक्ष्य महोग्रादर्शनं ददौः ॥ १५॥


अष्टोतत्र स्वरचत्यस्व स्वकर्मपरायणा ।

अल्पालीठ पदातारा बटुकादैकणैर्युताः ॥ १६॥


स्वावृति देवता मुक्ता सहस्रा तत्र जायते ।

शब्दोजाते कहत्येव सर्वाश्चर्य करःपर ॥ १७॥


ककारे ब्रह्मरूपत्वं तत्कादिमतमीरितम् ।

हकारा शिवरूपत्वं तधादिमतमीरितम् ॥ १८॥


कादिः काली तथा हादिः सुन्दरि सावसक्तित ।

द्वयं मिलीत्वाद्वेवेश कहत्येवं मनुर्भवेत् ॥ १९॥


कहत्येवं महामन्त्रो हंसवह्नी व मात्रके ।

उत्तरोर्ध्वाम्नापराज्ञा कहत्येवं महामनुः ॥ २०॥


चन्द्राग्नि यक्षषोडारव परानिर्वतत्परा ।

शाम्भवं च तथा मेधा कदावपितथाद्भूतम् ॥ २१॥


चन्द्राग्नि रसराज्ञी च कामहंसादि वात्घतः ।

वासिवृका तपाचार्धे पूर्वाचात्र प्रयोजता ॥ २२॥


उभयत्रभवेन्मेधा द्वयीसाम्राज्यरूपिणी ।

चन्द्राग्निदेवपञ्चार्णा तयानीलाक्रमेणी च ॥ २३॥


हंसतारा तथा नीला कृमान्मेधा भवेच्छिवे ।

त्रयोक्ता दिव्यसाम्राज्यमेधा दीक्षाक्रमेभवेत् ॥ २४॥


पूर्वोत्तर द्वयोक्ताचेत्साम्राज्य हृदि सिद्धिदा ।

पतद्युक्तः कहत्यवंसद्वस्तत्र वभूव च ॥ २५॥


महोग्रतारयातत्र स्वस्यनामसहस्रकम् ।

कृत्वाक्षोश्वमुखादुक्तं कटाक्षोत्प्रेक्षणेन च ॥ २६॥


कलासोपान मानरूठस्तत्र पाठपरायण ।

वायुनातन्मुखोत्घात स्पर्शेनापि महेश्वरी ॥ २७॥


स्व स्वस्थानपदं प्राप्य स्वशक्तौ ददुतामियु ।

कोटिवक्त्र विरञाद्या स्व स्वस्थाना निलेभिरे ॥ २८॥


कटाक्ष दर्शनं दत्वा तत्रैतान्तर धायते ।

सकामनिरतासर्वे स्व स्वसिद्धि परायणा ॥ २९॥


तदेव नाम सहस्रं तवप्रीत्या निगद्यते ।

दिव्यसाम्राज्यनामाख्यं नामसाहस्रमुत्तमम् ॥ ३०॥


यथादिव्यौत्पतैर्दिव्यः कुसुमैः पूजिता परा ।

प्रसिदति तदातेन सदा तारा प्रसिदति ॥ ३१॥


पावकश्चैव सिन्दुरैरष्टगन्धैर्लिखैज्जपेत् ।

मज्जाभिश्च तथा रक्तैस्तर्पयेत्प्रपठेत्सदा ॥ ३२॥


अनन्त महिमाख्यं च नाम साहस्रकं श‍ृणु ।

दिव्यसाम्राज्यमेधाख्यं नाम साहस्रकस्य च ॥ ३३॥


अक्षोभ्यस्तु ऋषिः प्रोक्तो बृहति छन्द ईरितम् ।

ऊग्रतारा देवतास्या कूर्चबीजं प्रकीर्तितम् ॥ ३४॥


कालीतारा महाबीजं तथा छिन्नामयं शिवे ।

तारा बीजं तथा काल्या शक्ति छिन्नामनुर्भवेत् ॥ ३५॥


अत एव भवेत्कूर्चं चण्डघण्टामयं शिवे ।

अस्त्र शक्तिश्च भुवना कीलकं नचाङ्गुयक् ॥ ३६॥


प्रत्यक्ष दर्शनाद्यर्थे विनियोग प्रकीर्तितः ।

ध्यानं मन्त्रवदासाद्य नामसाहस्रकं पठेत् ॥ ३७॥


ॐ अस्य श्रीमहोग्रतारा दिव्य साम्राज्य मेधा नाम

सहस्रकस्य अक्षोभ्यऋषिः बृहति छन्दः ।

उग्रतारादित्रिशक्ति देवता हं बीजं फट् शक्तिः

हं कीलकं श्रीमहोग्रतारा प्रत्यक्ष दर्शनाद्यर्थे विनियोगः ॥ ३८॥


अथ स्तोत्रम् ।

ॐ क्रां तारा स्त्रीहृदयमहातारा क्रमुग्रतारा तारिणी तरिः ।

महोग्रतारा स्त्रीतारा त्रिकटैकजटाधरा ॥ ३९॥


ततथैय्या भिनपगा तालताण्ड्वरूपिणी ।

ताण्डवाह्लाद निरत तहणी तहणाकृतिः ॥ ४०॥


तन्त्री वाद्यरता तन्त्रा तन्त्रशास्त्र परायणा ।

तारूण्यातकल्लोला तारूण्यामृतकन्यका ॥ ४१॥


तारूण्यामृत चान्द्री च तत्वदर्शनतत्परा ।

तीर्थसेवापरातुष्टा त्रां त्रीं त्रूं त्रैं स्वरूपिणी ॥ ४२॥


त्रोङ्कारात्रः स्वरूपा च त्रसा त्रस्तगतीस्तह ।

तनिम्रालालवृक्षस्था तालीपान परायणा ॥ ४३॥


तरूणीकुण्डनिरता तरूणीकुण्डरूपिणी ।

तरूणीकुसुमाह्लादा तरूणीबीजरूपिणी ॥ ४४॥


तरूणीगर्भसम्भूता तरूणीध्यानतत्परा ।

तरूणीपूजनिरता तरूणीभक्ततत्परा ॥ ४५॥


तरूणीलोचनानन्दलहरी तार्क्श्यवाहना ।

ताररूपा तामपर्णी ताम्रपत्रसमस्थिता ॥ ४६॥


तरूणीकुसुमामोहा तरूणीपुष्परूपिणी ।

तरूणीताडिकान्नाथा तरूणीमुखगोचरा ॥ ४७॥


तरूणीकेशसंस्था च तरूणीमुखमध्यगा ।

तरूणीवाक्यमध्या च तरूणीताण्डवर्णवा ॥ ४८॥


तरूणीगानसन्तुष्टा तरूणीभक्ततत्परा ।

तरूणीमुक्तीमाला च तरूणीभक्तरूपिणी ॥ ४९॥


तरूणीगमनप्रीत्या च तरूणीहास्यतत्परा ।

तरूणीनामिकानन्ता तरूणीरत्नरूपिणी ॥ ५०॥


तरूणीगमनप्रीत्या तरूणीयोगरूपिणी ।

तरूणीचुम्बनरता तरूणीलिङ्गरूपिणी ॥ ५१॥


तुला च तुलातल्पा तुलजापूरवासिनी ।

तनाननास्वरूपा च तथैरूपप्रधारिणी ॥ ५२॥


तोतला तैलसंप्रीता तृप्यतिमार्गपरायणा ।

तृसिदा तृणरूपा च तार्तीयगुणभूषिता ॥ ५३॥


तार्तीयबीजरूपा च तार्तीयाक्षररूपिणी ।

तत्वज्ञाना तत्वबुद्धि तत्वनाथा तथामति ॥ ५४॥


तौलिती च त्ववापी च तरस्थारूपिणी ।

तमातरमध्यस्वरूपा च तरदन्नर तामति ॥ ५५॥


तरूमूलस्थिता तद्रा तुष्टिस्त्रैकाल्यरूपिणी ।

त्रिकाल्यदा च त्रैर्पक्षताराणापकभूषणा ॥ ५६॥


त्वरिता त्वरितप्रीता तत्वदर्शी तमस्विनी ।

ताराक्षहारिणी तीर्णा तारूण्यकुण्डभोगिनी ॥ ५७॥


थकारवर्णनिलया थकाराक्षररूपिणी ।

थैथैरूपा थरिग्रूपा थौङ्गदादिकरूपिणी ॥ ५८॥


स्थूलवुध्नी स्थूलतनु स्थातध्यानपरायणा ।

थेथकुटाक्शरौप्यां थीन्थूङ्काराक्षरमालिनि ॥ ५९॥


थररूपादक्षणा च दानसन्मानदायिनि ।

दक्षपुत्री दक्षयज्ञनाशिनी दानवी दया ॥ ६०॥


दयाईहृदयादान्ता दैत्यनाशनकारिणी ।

दयालु दैत्यशमनी द्रव्यहाद्रव्यवत्साली ॥ ६१॥


द्रव्यगीता द्रव्यमाता दान्ता दारिद्र्य नाशिनी ।

दयार्ता दीपिनी दिशा दीपमार्गपरायणा ॥ ६२॥


दीनप्रीता दीर्घजीव्हा दारिद्र्यनाशिनीदित्ति ।

दुःखसंहारिणी दुष्टदैत्यविध्वंसनक्षमा ॥ ६३॥


दाडीमिपुष्परूपा च दाडीमिपुष्पपूजिता ।

दाडीमिवाजदत्ता च दाडीरूपा दरस्थिता ॥ ६४॥


दीर्घाक्षी दीर्घनासा च दीक्षिता दीक्षितेश्वरी ।

दुर्गा दुर्गविहंत्रि च दुःखप्रणाशिनी दरी ॥ ६५॥


दौर्गासुरविहंत्रि च दुर्गदारणतत्परा ।

दानदक्षा दानपूजा दानतुष्टा दयातति ॥ ६६॥


दासी दासीकुण्डरति दासीपुष्पपरायणा ।

दासीबीजरता दाना दीनारदायिनी द्रुती ॥ ६७॥


द्रुतसिद्धकरी दीर्घा दीर्घाका दीक्षितप्रिया ।

दासीचुम्बनसन्तुष्टा दासीमथनतत्परा ॥ ६८॥


दासीकुण्डप्रीतप्राणा दान्दीन्दून्दैं स्वरूपिणी ।

दूं बीजजपसन्तुष्टा दूंवुस्वाहा स्वरूपिणी ॥ ६९॥


धनदा धननाथा च धनधान्यविवर्धिनी ।

धूं बीजनिलया धूम्रा धूधून्धूमावति धृति ॥ ७०॥


धैर्यदा धारिणी धैर्या धरित्री च धराधरा ।

धर्मिष्ठा धर्मनिरता धर्ममार्गपरायणा ॥ ७१॥


धर्मप्राण धर्मगति धारासम्पातरूपिणी ।

धिमिथरिहवरूपा च धर्मतारा धनार्चिता ॥ ७२॥


धी धीषणा धीरगति धीराधीरस्वरूपिणी ।

धात्रीप्रसुनसन्तुष्टा धात्रीफलकुचद्वया ॥ ७३॥


धात्रीध्यानरता ध्याना ध्यानतत्वपरायणा ।

ध्यानदात्री ध्यानगात्रा ध्यानस्था ध्यानरूपिणी ॥ ७४॥


ध्येयरूपा ध्येयगम्या ध्येयचक्रसमस्थिता ।

ध्यानपरायणप्रीता ध्यानध्येयस्वरूपिणी ॥ ७५॥


ध्यानगम्या ध्यानतुष्टाः ध्यानगानपरायणा ।

धिकतान्धिस्वरूपा च धैधैशब्दपरायणा ॥ ७६॥


धर्मिनी धर्मपक्षाङ्गा धर्मकर्मपरायणा ।

धर्मग्रामरताङ्घ्रिं च ध्रीन्ध्रीन्धून्धौं स्वरूपिणी ॥ ७७॥


नररूपा नरप्रीता नरनाथा नरात्मिका ।

नारसिंही नतिर्नारी नरपुष्पस्वरूपिणी ॥ ७८॥


नरपुष्पप्रियप्राणा नरपुष्पप्रतर्पिता ।

नरपुष्पार्चनपुष्पा नरपुष्पक्रियामति ॥ ७९॥


नरपुष्पार्चनानन्दा नरपुष्पाम्बरा नदि ।

नरयज्ञा नरानन्दा नरयज्ञपरायणा ॥ ८०॥


नरनापूरतानाना नतनानास्वरूपिणी ।

नानामाना ननननास्वरूपा नाप्रर्विता ॥ ८१॥


नाप्रीता नाप्रशाला नाटिकानन्दतोषिता ।

नानाभाषाप्ररूढा च नानावर्णश्चरूपिणी ॥ ८२॥


नागिनी नागभूषा च नागार्हार्नागरूपिणी ।

नगज्वानगसम्भूता नगवंश प्रतोषिता ॥ ८३॥


नादरूपा नादगतिर्नादब्रह्म परायणा ।

नारदप्रियसन्तुष्टा नारदप्रियमानसा ॥ ८४॥


नारदा नारदेशी च नदीनिम्नस्वरूपिणी ।

निम्ननाभी निश्चयोनि निम्ननेत्रा नरोत्तमा ॥ ८५॥


नरवाहनसन्तुष्टा नरवाहनतत्परा ।

नान्नीन्नून्नैन्नौं स्वरूपा च नमोरूपा नमोनमः ॥ ८६॥


नमस्कारप्रिया नित्या नित्यानन्दस्वरूपिणी ।

नित्यपूजार्चनप्रीता नित्यपूजापरायणा ॥ ८७॥


नित्योत्सवपरानन्दा नीररूपा नीराकृती ।

नर्मदा नर्मरूपा च नर्मकुण्डवीकानी ॥ ८८॥


नर्मकुण्डलेलिहाना नर्मनटप्रिया ।

नैमित्तिकार्चनप्रीता नैमित्तिकपरायणा ॥ ८९॥


नर्मदा नर्मदात्री च नर्मकर्मपरायणा ।

नीवीमोचनसन्तुष्टा नीवीमोचनतत्परा ॥ ९०॥


नारीपुष्पप्रियाप्राणा नारीपुष्पपरायणा ।

नारीपुष्पमतीप्रीता नारीपुष्पस्वरूपिणी ॥ ९१॥


नैर्यापिका नववीणा च नाडीनादपरायणा ।

नाडीनादपरानन्दा नाडीनादपरागती ॥ ९२॥


नाडीनादात्मिका नौका नौकाक्रीडापरायणा ।

पद्मपूजनसन्तुष्टा पद्महोमपरायणा ॥ ९३॥


परमानन्दसन्दोहा परमाकाशरूपिणी ।

परातीता परागम्या परमात्मा परागति ॥ ९४॥


पम्पातीरनिवासा च प्रद्युम्नाप्रीतिरूपिणी ।

प्राणवा प्राणवेज्या च परतत्वा परायणा ॥ ९५॥


पद्मपत्रा पद्मतुष्टा तुष्टीपावनरूपिणी ।

पापसंहारिणी तुष्टा पुण्यदात्री परातरी ॥ ९६॥


पुरी पुरारी गृहिणी पुराणागमरूपिणी ।

पुराणगम्या पानाट्या पानतोषणतत्परा ॥ ९७॥


पानानन्दा पीततनुस्था तैवपि रसस्वनी ।

पीनयोनी पीतजङ्घा पीताम्बरधरावति ॥ ९८॥


पीताम्बरा पीतगर्भा पीतपुष्पार्चनप्रिया ।

पीतपुष्पाञ्जलिरता पीतद्रदनिवासिनी ॥ ९९॥


पीठस्था पीठरूपा च पीठवासपरायणा ।

परदारप्रिया पत्राधरधार प्रहर्षिणी ॥ १००॥


परदारप्रहरसि परदारविरोधिनी ।
परदारप्रियापात्रा पात्रतोषणतत्परा ॥ १०१॥

पात्ररूपा पात्रतुष्टी पात्रदानपरायणा ।
पात्रपुष्पप्रिया पात्रकुण्डानन्दपरेश्वरी ॥ १०२॥

पात्राराधनसन्तुष्टा पात्रप्रासादरूपिणी ।
पवित्रा पुण्यचारित्रा पवित्रारोपणात्मिका ॥ १०३॥

पवित्ररोपणरता पात्रगानपरायणा ।
पात्रगीत पात्रनपा पात्रसंयोगरूपिणी ॥ १०४॥

पात्रकुण्डविकसता पात्रकुण्डविलोहिनी ।
पात्रकुण्डध्वनिरता पात्रकुण्डध्वनिप्रिया ॥ १०५॥

परनिद्राविनिर्मुक्ता परद्रव्यविमोचनी ।
परस्वनाशिनीप्रीता पार्वती पर्वतात्मजा ॥ १०६॥

पर्वतेज्या पर्वरता पर्वतप्रियरूपिणी ।
परायणा पारची च पतिधर्मविधारिणी ॥ १०७॥

पतिप्रिया प्रीतिरता पतिगम्या पतिव्रता ।
पतिव्रतधरा पीनवक्षोजद्वयधारिणी ॥ १०८॥

पिशाचप्रेमसन्तुष्टा प्रेतकोटिसमाकुला ।
प्रेतगर्भा प्रेतरूपा प्रेतभूषणभूषणी ॥ १०९॥

प्रेतमालाकण्ठभूषा प्रेतलेहनतत्परा ।
प्रेतशी प्रेतराज्ञी च प्रेतव्रतपरायणा ॥ ११०॥

पिशाचानन्दसन्तोषा पार्थप्रीतिपरायणा ।
पार्थिवा पार्थवेज्या च पृथुला पृथुरूपिणी । १११॥।

पृथ्वी च पृथिवी पिङ्गा पिङ्गनेत्रा च पिङ्कटा ।
पापान् विनाशिनी पद्या गद्यपद्यपरायणा ॥ ११२॥

पद्यात्मिका पद्यरता पाम्पीम्पूम्पौं स्वरूपिणी ।
पाम्पीङ्काररता प्राणा प्राणदात्री प्रतापिनी ॥ ११३॥

प्रभावती प्रभाप्रेमा प्रेमयोगपरायणा ।
प्रज्ञा प्रज्ञावतीप्रज्ञा प्रज्ञानप्रतिभावती ॥ ११४॥

प्रतिभा प्रणतीप्राणा प्रज्ञापतिग्रहस्थिता ।
प्रजापति प्रियापारा पुरीन्द्रध्वजशोभिता ॥ ११५॥

प्रमतीप्राणधर्तृ च प्रतिज्ञापारगामिनी ।
फुम्फुङ्कारा च फट्कारा फट्काररूपधारिणी ॥ ११६॥

फ्रीङ्कार फूत्कृतिः फ्रूं च स्फङ्कारारूपधारिणी ।
फ्रोङ्काराफेरवी फ्राम्फ्रूम्फेत्कारी फणधारिणी ॥ ११७॥

फेणिप्रीता फणेरता फणदर्शनतोषिणी ।
फणिभूषणसम्भूषा फणिनाथप्रियार्चिता ॥ ११८॥

फणिबन्धसमुद्भूता फणिवंशसुशोभिनी ।
पशुहस्ता पशुमति परशुरामप्रसादिनी ॥ ११९॥

फेत्कारभैरवी फ्रौण्टा फ्रेत्कारारवभाषिणी ।
फ्रेत्कारा फाल्गुनानन्दा फली फुल्लप्रिया फुला ॥ १२०॥

फलदात्री फलरता फलरूपा फलात्मिका ।
फलहोमप्रियस्फाला फलनामपरायणा ॥ १२१॥

बृहस्पतिमुखस्था च बृहतीछन्दरूपिणी ।
बृहत्सेवा बृहत्ब्रह्मी ब्रह्मीब्रह्मप्रपूजिता ॥ १२२॥

ब्रह्मवृत्तधरावीणा बाण्सन्धानकारिणी ।
बाणासुरार्चिता ब्रूं च ब्राम्ब्रीम्ब्रैम्ब्रौं स्वरूपिणी ॥ १२३॥

बर्हिपिछुमिया बर्हा बर्हपछविभूषणा ।
बटुका बटुकेज्या च बटुकप्राणमानसा ॥ १२४॥

बटूकाभैरवरता बटुकार्चनतोषिणी ।
बटुकार्चनसन्तुष्टा बलीदानप्रियाबली ॥ १२५॥

बलिपूज्या बलिरता बलिदाननिवासिनी ।
बलिद्वारस्थिता बाला बालां वा बालभैरवी ॥ १२६॥

बालक्रीडामयप्राणा बालकप्रियकारिणी ।
बलितुष्टा बलिरता बलितोषणकारिणी ॥ १२७॥

बलिमाता बलिमयि बलितत्वात्मिकाबली ।
बला बलार्चनप्रीता बलधारणतत्परा ॥ १२८॥

बटुकाराधनरता बटुकेज्या बटुप्रिया ।
बटुकाराधनप्रीता बटुकार्यवतारिणी ॥ १२९॥

बटुतारा बटुछिन्ना बटुकाली बृहन्मयी ।
बृहत्कुक्षि बृहत्तारा बृहत्तन्त्रागमेश्वरी ॥ १३०॥

बृहद्रुणा बृहद्यन्त्रा बृहत्तन्त्रा बृहत्कला ।
बृहन्माता बृहज्वाला बृहन्मानमयीबृहत् ॥ १३१॥

बृहत्ताण्डवरूपा च बृहत्तारूण्यरूपिणी ।
बृहदारण्यसंसेव्या बालचन्द्रकिरीटिनी ॥ १३२॥

बलदा बाहुभूषा च बाहुमालाविभूषणा ।
बाहुला बाहुलेयेसी बाहुलेयस्वरूपिणी ॥ १३३॥

बहुभाषामयी बुद्ध्या बुद्धिदा बुद्धिदायिनी ।
बुद्धि बुद्धिमता बौद्धा बौद्धाचारपरायणा ॥ १३४॥

बौद्धमार्गप्रियाप्रीता बौद्धमार्गपवर्तिनी ।
बृहस्पतिसुताराध्या बुद्धिमाता बुधेश्वरी ॥ १३५॥

बौद्धावारूपिणी भार्या भानवी भानुरूपिणी ।
भानुमत्ता भानुमयी भानुभार्या भवेश्वरी ॥ १३६॥

भवपत्नी भयहरा भवदानवनाशिनी ।
भवमाता भवरताश्रवतारणतारिणी ॥ १३७॥

भर्तप्रिया भर्तरता भर्तभावप्रकाशिनी ।
भर्तनीतिकरी भार्या भर्तदा भीमभीषणी ॥ १३८॥

भीक्षूपूज्या भिक्षूमाता भिक्षूमानसतोषिणी ।
भीमसेनप्रिया भीमा भीमाक्षी भीमभीतिदा ॥ १३९॥

भ्रान्तहन्त्री भयहरा भवपाशविमोचिनी ।
भवदावानलघ्नी च भक्तपूज्या भवार्तिहा ॥ १४०॥

भक्ततुष्टा भौममाता भोपा भोपप्रताशिनी ।
भृगरूपा भृगोपत्नी भृगुताण्डवकारिणी ॥ १४१॥

भृगुत्सेवरता भ्रान्तीहारिणी भारतप्रिया ।
भारती भानवेश्या च भाषा भीमामयी भवा ॥ १४२॥

भानमती भुक्तिमयी भ्रूं बीजाक्षररूपिणी ।
भ्राम्भ्रीम्भ्रूम्भ्रैं स्वरूपिणी भ्रमतीवविनाशिनी ॥ १४३॥

भङ्गा भङ्गाप्रिया भृङ्गी भृङ्गध्वनिपरायणा ।
भ्रातृजाया भगवती भवानी भक्तवत्सला ॥ १४४॥

भवसिद्धा भगेज्या च भगमाला भवेश्वरी ।
भ्रान्ता भ्रमरिका भीति भ्राजिश्णु भक्तरूपिणी ॥ १४५॥

भक्तमानसन्तुष्टा भवती भ्रमराम्बिका ।
भ्रामरी भ्रान्तमाला च भवेज्या भवसिद्धिदा ॥ १४६॥

भगरूपा भगरता भगगीतीमयी भगा ।
भङ्काररूपिणी भ्रामा भगमालाविभूषणा ॥ १४७॥

भगलिङ्गस्वरूपा च भगलिङ्गपरायणा ।
भगलिङ्गामृतान्दोला भगाविलोलुपा ॥ १४८॥

भगार्चनरतानन्दी भगभाग्यपरायणा ।
भगतत्वा भगाव्हा च भगलिङ्गध्वनी भगा ॥ १४९॥

भगनी भार्गवेज्या च भगमाला भगाङ्कुरा ।
भगकुण्डाह्लादरता भगकुण्डविकासिनी ॥ १५०॥


भवित्री भविता भूता भूतमाता च भूपति ।
भूपेज्या भूपसन्तुष्टा भैक्ष्यचर्वणतत्परा ॥ १५१॥

भगनामस्मृतिपरा भगजापपरायणा ।
भगतन्त्रा भगामोहा भगगन्धपरायणा ॥ १५२॥

भगवापीस्नानरता भगतीर्थनिवासिनी ।
भगदर्शनसन्तुष्टा भगचुम्बनतोषिणी ॥ १५३॥

भगजिह्वा भगमुखा भगचक्षु भगाम्बुजा ।
भूतेशी भूतदुर्गस्था भूपतित्वप्रदायिनी ॥ १५४॥

भूम्भूङ्कारस्वरूपा च भद्रशब्दपरायणा ।
भहभहारकामहा भाष्यकर्ता भयापहा ॥ १५५॥

भरता भरतेशी च भरताप्राणदायिनी ।
भरताप्रेमसन्तुष्टा भरताधाररूपिणी ॥ १५६॥

भूभारा भूधराधीशा भूधरा भूधरप्रिया ।
मामीपानन्दना माया मद्यपानपरायणा ॥ १५७॥

मधुप्रीता मधुरता मधुरा मधुरामधु ।
मदिरा मदिरोन्मत्ता माननीया मदोद्धता ॥ १५८॥

माध्वीपानरता माता मायाबीजव्हयामती ।
निमाता मालिनी मात्रा मदनीमृतदर्पिका ॥ १५९॥

मानाक्षी मातुलानी च मोदिनी मदनातुरा ।
म्राम्म्रीम्म्रूम्रैं स्वरूपा च म्रौम्म्रः सर्वस्वरूपिणी ॥ १६०॥

मिताक्षरा मिताहारा मिताचार मनोमयी ।
मलिना मलिनी मैत्रा मैत्रवारूणतारुणी ॥ १६१॥

मायावती मानवती महामधुमतिमयी ।
महीधरसक्ता मात्रा मात्रास्वरविभेदिनी ॥ १६२॥

मीनरूपा मीननाथा मालती मधुलोलुपा ।
मधुपानरता मारी महामारी महीपति ॥ १६३॥

महाकाली महातारा महाछिन्ना महेश्वरी ।
माहेशी च मदस्था च मदनस्थानरूपिणी ॥ १६४॥

मदनप्रियकान्ता च महायोगेश्वरी मखी ।
महामदनसन्तुष्टा महामदनभूषिता ॥ १६५॥

महिता महिला माया मकाराक्षररूपिणी ।
मकाररूपिणी मुद्रा मुद्रामोदपरायणा ॥ १६६॥

मेहस्था मेहमाता च मेहमित्रा महत्प्रिया ।
महता मोजसाकारा महतानन्ददायिनी ॥ १६७॥

मधुमांसा मेहतारा मेहप्रस्ताररूपिणी ।
मेहपुत्री च मीनाक्षी मितभाषा मितार्थवित् ॥ १६८॥

मदनान्तककान्ता च मदनान्तकरूपिणी ।
महोरगा महोशुषा महती महिषापहा ॥ १६९॥

महिषासुरनिर्नाशी मुण्डमालाविभूषणा ।
मुण्डप्राकारसंरूपा मुण्डासुरविमर्दिनी ॥ १७०॥

मानसा मानसेसी च मुद्रिण्यम्बास्वरूपिणी ।
मुद्रिणी मन्त्रिणी मन्त्रा महामन्त्रा महार्णवा ॥ १७१॥

महार्णवस्थिता मोहा मोहिनीनाशिनी मरुत् ।
मनुर्मनुमयी माद्री मद्रकुञ्जरवासिनी ॥ १७२॥

मद्रकुम्भस्थलारूढा मद्मुक्ताविभूषणा ।
मुक्ताहारविभूषाढ्या मुक्तकेशी महूर्तदा ॥ १७३॥

मोहकर्ती मोहहीना महामोहपरायणा ।
मन्त्रप्राणार्पणप्रीता मन्त्रप्राणार्पणार्चिता ॥ १७४॥

महौघानन्दा मन्दगन्धा मद्यपूजनतत्परा ।
मकारवर्णसर्वाङ्गी मितभोगा मितान्मिता ॥ १७५॥

महाधूम्रावती मुक्ता महामुक्ताविभूषणा ।
मुक्तारजन्तनासा च मुक्ताछत्रविभूषणा ॥ १७६॥

मुक्तदानरता मध्या मध्यमा मध्यमेश्वरी ।
मितीर्मीतीमती मीनकेतु मकररूपिणी ॥ १७७॥

मकरस्था महादेवी महादेव मनोमयी ।
महोत्सवादुर्गा माया महापूजारमेत्यदा ॥ १७८॥

महाग्रहस्वरूपा च मघानक्षत्ररूपिणी ।
मद्यमांसवृतरता माघस्नानपरायणा ॥ १७९॥

मार्गशीर्षप्रियानन्दा मार्गदर्शनतत्परा ।
मार्गमार्गामात्रका च मातृकालिपिरूपिणी ॥ १८०॥

मातृकान्याससन्तुष्टा मातृकान्यासरूपिणी ।
मालिनीन्याससन्तुष्टा मालिनीमोक्षदायिनी ॥ १८१॥

मोक्षदात्री मोक्षगर्ती मोक्षमार्गपरायणा ।
मुक्ता मुक्तिप्रियकरी मुक्तिस्था मुक्तिताण्डवा ॥ १८२॥

महानन्दा महाकाली महाभुवनतारिणी ।
महेन्द्रपूज्या माहेशी मतिसागरदायिनी ॥ १८३॥

यक्षा यक्षस्वरूपा च यक्षणी यक्षपूजिता ।
यादेवी यादवाराध्या यदुवंशसमुद्भवा ॥ १८४॥

यमुना च यजुर्वेदा यजुर्वेदपरायणा ।
यामिनी यमपूज्या च यममातापतिप्रिया ॥ १८५॥

यात्रा यात्रयशोदा च यशोवर्धनतत्परा ।
यशकर्पूरधवला योगिनी च यशस्विनी ॥ १८६॥

यांयींयूं याकिनीरूपा यैंयौं यङ्काररूपिणी ।
योगमाता योगगम्या योगमार्गपरायणा ॥ १८७॥

योगीशा योजना यामा योजनायुतविस्तरा ।
यथोक्ताचारनिरता यथोक्तफलदायिनी ॥ १८८॥

यक्षकर्दमसम्भूषा यवर्गरूपिणीपति ।
रमणी रमणीप्रीता रमा रत्नेश्वरी रती ॥ १८९॥

रतिप्रिया रतिरता रतितोषणतत्परा ।
रत्नगर्भा रत्नबीजा राजीवलोचना रमा ॥ १९०॥

राम्बीजा रींस्वरूपा च रांरींरूंरैं स्वरूपिणी ।
रौंरः वर्णस्वरूपा च राज्यदातृ रसातुला ॥ १९१॥

रसतुष्टा रसगति रघुवंशसमुद्भवा ।
रतिरूपा रतान्ता च रतिगर्भपरायणा ॥ १९२॥

राजीवनेत्रा राज्ञी च रमणासुरकन्यका ।
राजराजेश्वरीद्रष्टा रौद्री रूद्रप्रिया च हट् ॥ १९३॥

हद्रकन्या हद्रजाया हद्रमातारतानन्दा ।
हद्रेज्या च त्रिरूपा च रात्रिञ्चरविभेदिनी ॥ १९४॥

राक्षसघ्नी रक्षणा च रक्षोविद्रावणी रता ।
हचिरा हचिरूपा च रोचिषा रोमरूपिणी ॥ १९५॥

रोमगर्भा रोमदेहा रोमभूषणतत्परा ।
रसा रसवती राज्यलक्ष्मी रावणनाशिनी ॥ १९६॥

रावणेज्या रवदता रावणप्रियदायिनी ।
रजोवती रजःप्राणा रजोगुणमयी रवा ॥ १९७॥

रतिपुष्पप्रिया रूंरूं राकिणी रेणुका रया ।
रैं बीजनिलया रैण्णा रेणुरूपा च हाकिनी ॥ १९८॥

हक्वाङ्गदस्यभगिनी हक्यरूपा च रूपभू ।
रौप्यपरा रौप्यरौप्या रौप्यगेहविभूषणा ॥ १९९॥

रौप्यसिंहासनरता रौप्यदानपरायणा ॥ २००॥

इति श्रीदिव्यसाम्राज्यमेधानामसहस्रकम् ।
महोग्रानामसाहस्रं तारण्या गदितं पुरा ॥ २०१॥

अक्षोभ्यस्ववरोदत्तप्रसादेन प्रकीर्तितम् ।
इदमेवपुरादेवी कालेनापि प्रकीर्तितम् ॥ २०२॥

अष्टाधिकसहस्रन्तु नमः स्वाहास्रमेवतु ।
तवर्गान्तुरकारान्तं तेनतारामयं शिवे ॥ २०३॥

सर्वसिद्धिमयं साक्षात् सर्वापत्तारणं परम् ।
पूजाकाले विशेषेण सन्ध्यायोभययोरपि ॥ २०४॥

यः पठेत्प्रयतोनित्यं ताराप्रत्यक्षतामियात् ।
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ॥ २०५॥

अर्धरात्रे विशेषेण सर्वसिद्धिप्रदं शिवे ।
कुलका स्मरणं तारा ध्यानं नामप्रकीर्तितम् ॥ २०६॥

भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः ।
सर्व सङ्कट विनिर्मुक्त सर्व सत्व समन्वितः ॥ २०७॥

सर्वसिद्दिश्वरोभूयान्नात्र कार्या विचारणात् ।
यः पठेद्वापाठयेद्वापि श‍ृणोतिश्रावयैदपि ॥ २०८॥

सर्वपापविनिर्मुक्तसयाति तारणीपदम् ।
सर्वशास्त्रार्थवेत्ता च महाश्रुत्यधर कविः ॥ २०९॥

शून्यागारे शवे मुण्डे श्मशाने रणमण्डले ।
राजमञ्चे नदीकुले शय्यायामेकलिङ्गके ॥ २१०॥

चतुष्पथे तडागे चनङ्गागर्भेशिवालये ।
प्रान्तरेसर्वतेघोरे योनौऋतु पतिगृहे ॥ २११॥

वेश्यावासे पीठमध्ये सूतिकाया गृहे तथा ।
यः स्मरेत्परया भक्त्या ताराभक्तिपरायणा ॥ २१२॥

नान्यनामस्मरेदेवि नान्यचित्तञ्चरेत्क्वचित् ।
सिन्दूरतिलकोन्नित्यं रक्तचन्दन त्रिपुण्ड्रधृत् ॥ २१३॥

ताराध्यायनपिस्तोत्रं सिद्धिनामधिपो भवेत् ।
खड्गस्तम्भं जगत्स्तम्भं सैन्यस्तम्भं विवस्वत ॥ २१४॥

ऋतुमत्या भगन्दृष्ट्वा ताराध्यानपरायणः ।
प्रजपेत् परमेशानि सर्वैश्वर्यमयो भवेत् ॥ २१५॥

अष्टोत्तरशतञ्जप्त्वा भगमामन्त्र पार्वति ।
भगं विकसितं कृत्वा जपेत् सिद्धिश्वरो भवेत् ॥ २१६॥

तूर्णमाकर्षयेद्रव्यं लक्षपऽचकजापतः ।
मेष माहिष मार्जार शूकरा सर्व मुख्यकैः ॥ २१७॥

दुग्धैसुक्तिश्चपूजान्ते तारां सन्तपर्येत्पठेत् ।
तारायादर्शनं प्राप्य त्रैलोक्ये विजयी भवेत् ॥ २१८॥

दिवाशक्तिमुखं तस्यचेस्मालय परायणा ।
प्रजपेद्यत्नतो देवि सुरेन्द्रसदृशो भवेत् । २१९॥

दूतीयागविधायाथ दूतीसन्तोषभक्तितः ।
मन्त्रमादौजपे देवि मध्ये नाम सहस्रकम् ॥ २२०॥

पुनर्मन्त्रं जपे देवि शक्तियोगं समेश्वरी ।
मासमात्र प्रयोगेण सर्व कार्यक्षमो भवेत् ॥ २२१॥

भोगेच्छयान कर्तव्यं ममछायो भवेद्ध्रुवम् ।
स्वयम्भुः कुसुमैः शुक्रैः जपापावकसंयुतैः ॥ २२२॥

रक्तचन्दनस्यन्दुरैः मत्स्यमांसादिभिः प्रिये ।
अनन्यभुक्त स्थिरधी मुक्तकेशो दिगम्बरः ॥ २२३॥

केशात्संवर्धये देवि तारा भव परायणा ।
शिवस्थो वा श्मशानस्थ शून्यालय गतो शिवा ॥ २२४॥

तारिणीं पूजयेदित्या धूपदीपादिभिः शिवे ।
जप्त्वा तारा महामन्त्रं पठेन्नामसहस्रकम् ॥ २२५॥

सुदर्शनोभवेद्यासु देव गन्धर्व सेवितः ।
स भवेत्तारिणीं पुत्र इति ख्याति भवेच्छिवे ॥ २२६॥

इति श्री महोग्राताराक्शोभ्य संवादे अक्षोभ्यसंहितायां शतार्धसहस्रां
ताराविरचितं दिव्यसाम्राज्यमेधाख्यं नामसहस्रं विंशति पटलः ।



Post a Comment

0 Comments