Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Chandra Kavacham -चन्द्र देव कवच

 

 Chandra Kavacham  -चन्द्र देव कवच 






श्रीचंद्रकवचस्तोत्रमंत्रस्य गौतम ऋषिः । अनुष्टुप् छंदः

चंद्रो देवता । चन्द्रप्रीत्यर्थं जपे विनियोगः 


समं चतुर्भुजं वन्दे केयूरमुकुटोज्ज्वलम् 

वासुदेवस्य नयनं शंकरस्य च भूषणम् ॥ १ 


एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् 

शशी पातु शिरोदेशं भालं पातु कलानिधिः  २ 

चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः 

प्राणं क्षपाकरः पातु मुखं कुमुदबांधवः ॥ ३ 

पातु कण्ठं च मे सोमः स्कंधौ जैवा तृकस्तथा 

करौ सुधाकरः पातु वक्षः पातु निशाकरः ॥ ४ 


 हृदयं पातु मे चंद्रो नाभिं शंकरभूषणः 

मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ॥ ५ 

ऊरू तारापतिः पातु मृगांको जानुनी सदा 

अब्धिजः पातु मे जंघे पातु पादौ विधुः सदा ॥ ६ 


सर्वाण्यन्यानि चांगानि पातु चन्द्रोSखिलं वपुः 

एतद्धि कवचं दिव्यं भुक्ति मुक्ति प्रदायकम् 

यः पठेच्छरुणुयाद्वापि सर्वत्र विजयी भवेत् ॥ ७ 

 इति श्रीब्रह्मयामले चंद्रकवचं संपूर्णम् 





Post a Comment

0 Comments