Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Mangal Graha Kavacham - मंगल ग्रह कवच

Mangal Graha Kavacham - मंगल ग्रह कवच 








अथ मंगल कवचम्

अस्य श्री मंगलकवचस्तोत्रमंत्रस्य कश्यप ऋषिः 

अनुष्टुप् छन्दः । अङ्गारको देवता 

भौम पीडापरिहारार्थं जपे विनियोगः


रक्तांबरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् 

धरासुतः शक्तिधरश्च शूली सदा ममस्याद्वरदः प्रशांतः ॥ १ 

अंगारकः शिरो रक्षेन्मुखं वै धरणीसुतः 

श्रवौ रक्तांबरः पातु नेत्रे मे रक्तलोचनः ॥ २ 

नासां शक्तिधरः पातु मुखं मे रक्तलोचनः 

भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा ॥ ३ 

वक्षः पातु वरांगश्च हृदयं पातु लोहितः

कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ॥ ४ 

जानुजंघे कुजः पातु पादौ भक्तप्रियः सदा 

सर्वण्यन्यानि चांगानि रक्षेन्मे मेषवाहनः ॥ ५ 

या इदं कवचं दिव्यं सर्वशत्रु निवारणम् 

भूतप्रेतपिशाचानां नाशनं सर्व सिद्धिदम् ॥ ६ 


सर्वरोगहरं चैव सर्वसंपत्प्रदं शुभम् 

भुक्तिमुक्तिप्रदं नृणां सर्वसौभाग्यवर्धनम् 

रोगबंधविमोक्षं च सत्यमेतन्न संशयः ॥ ७ 

 इति श्रीमार्कण्डेयपुराणे मंगलकवचं संपूर्णं 




Post a Comment

0 Comments