Budha Graha Kavacham-बुध ग्रह कवच
अस्य श्रीबुधकवचस्तोत्रमंत्रस्य कश्यप ऋषिः I
अनुष्टुप् छंदःI बुधो देवता I
बुधपीडाशमनार्थं जपे विनियोगः ॥
बुधस्तु पुस्तकधरः कुंकुमस्य समद्दुतिः I
पितांबरधरः पातु पितमाल्यानुलेपनः ॥ १ ॥
कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा I
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ॥ २ ॥
घ्राणं गंधप्रियः पातु जिह्वां विद्याप्रदो मम I
कंठं पातु विधोः पुत्रो भुजा पुस्तकभूषणः ॥ ३ ॥
वक्षः पातु वरांगश्च हृदयं रोहिणीसुतः I
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः ॥ ४ ॥
जानुनी रौहिणेयश्च पातु जंघेSखिलप्रदः I
पादौ मे बोधनः पातु पातु सौम्योSखिलं वपु ॥ ५ ॥
एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् I
सर्व रोगप्रशमनं सर्व दुःखनिवारणम् ॥ ६ ॥
आयुरारोग्यधनदं पुत्रपौत्रप्रवर्धनम् I
यः पठेत् श्रुणुयाद्वापि सर्वत्र विजयी भवेत् ॥ ७ ॥
II इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपूर्णं ॥
0 Comments
I am always there with you hari om