Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Indrakrit Lakshmi Stotra.- इन्द्रकृत लक्ष्मी स्तोत्र

Indrakrit Lakshmi Stotra.- इन्द्रकृत लक्ष्मी स्तोत्र



This stotra is composed by Loed Indra to get immense wealth and prosperity in life.

Chanting if done for one month 101 times a day can attract wealth prosperity and long life.

By chanting this stotra, great happiness is attained.


इंद्रकृत लक्ष्मी स्तोत्र।

जीवन में अपार धन और समृद्धि प्राप्त करने के लिए इस स्तोत्र की रचना लोद इंद्र ने की है।

एक महीने तक दिन में 101 बार जप करने से धन-समृद्धि और लंबी आयु प्राप्त होती है।

इस स्तोत्र का जाप करने से अपार सुख की प्राप्ति होती है।




ॐ नमः कमनवासिन्यै नारायण्यै नमो नमः |

कृष्णप्रियायै सारायै पद्मायै च नमो नमः || १ ||

पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः |

पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ||२||

सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः |

सुखदायै मोक्षदायै सिद्धिदायै नमो नमः || ३ ||

हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो. नमः |

कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः || ४ ||

कृष्णशोभास्वरुपायै रत्नपनेच शोभने |

सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ||५||

शष्याधिष्ठातृदेव्यै च शस्यायै च नमो नमः |

नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः || ६ ||

वैकुण्ठे या महालक्ष्मीर्वक्ष्मीः क्षीरोदसागरे |

स्वर्गलक्ष्मीरिन्द्रगेहे राजनक्ष्मी पालये || ७||

गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता |

सुरभी सा गवां माता दक्षिणा यज्ञकामिनी || ८ ||


अदितिर्देवमाता त्वं कमला कमलालये |

स्वाहा त्वं च हविर्दाने काव्यदाने स्वधा स्मृता ||९||

त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा |

शुद्धसत्त्वस्वरुपा त्वं नारायणपरायणा || १०||

क्रोधहिंसावर्जिता च वरदा च शुभानना |

परमार्थप्रदा त्वं च हरिदास्यप्रदा परा || ११ ||

यया विना जगत्सर्वं भस्मीभूतमसारकम् |

जीवन्मृतं च विश्वं च शवतुल्यं यया विना || १२||

सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी |

यया विना न सम्भाष्यो बान्धवैर्बान्धवः सदा || १३ ||

त्वया हीनो बन्धुहीनस्त्वया युक्तः स बान्धवः।

धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी || १४ ||

यथा माता स्तननंधानां शिशूनां शैशवे सदा |

तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः||१५||

मातृहीनःस्तनत्यक्तः स चेज्जीवति दैवतः|

त्वया हीनों जनः कोऽपि न जीवत्येव निश्चितम् || १६ ||

सुप्रसन्नास्वरूपा त्वं मां प्रसन्ना भवाम्बिके |

वैरिग्रस्तं च विषयं देहि मह्यं सनातनि || १७ ||

वयं यावत्त्वयाहीना बन्धुहीनाश्च भिक्षुकाः |

सर्वसंपविहीनाश्च तावदेव हरिप्रिये || १८ ||

राज्यदेहि श्रियं देहि बलं देहि सूरेश्वरि |

कीर्तिं देहि धनं देहि यशो मह्यं च देहि वै ||१९||

कामं देहि मतिं देहि भोगाँ देहि हरिप्रिये |

ज्ञानं देहि च धर्मं च सर्वसौभाग्यमिप्सितम् ||२०||

प्रभावं च प्रतापं च सर्वाधिकारमेव च |

जयं पराक्रमं युद्धे परमैश्वर्यमेव च || २१ ||

। फलश्रुतिः||

इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः।

कुबेरतुल्यः स भवेद्राजराजेश्वरो महान् || २१ ||

सिद्धस्तोत्रं यदि पठेत् सोपि कल्पतरुर्नरः|

पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् || २२||

सिद्धिस्तोत्रं यदि पठेन्मासमेकं च संयतः|

महासुखी च राजेन्द्रो भविष्यति न संशयः|| २३ ||

|| इति श्रीब्रह्मवैवर्तमहापुराणे इन्द्रकृतलक्ष्मीस्तोत्रं सम्पूर्णं ||





Post a Comment

0 Comments