Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Kashyap Krut Ganesh Kavach-कश्यप क्रुत गणेश कवच

Kashyap Krut Ganesh Kavach-कश्यप क्रुत गणेश कवच





कश्यप कृत गणेश कवच
गौर्यवाच
एषोऽतिचपलो बालो दैत्यान्हन्ति बहूनपि ॥
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम |
दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः॥
अतोऽस्य कण्ठे किञ्चित्त्वं रक्षार्थ बटुमर्हसि ।
मुनिरुवाच
गणेशकवचं वक्ष्ये सर्वरक्षाकरं नृणाम् ।
ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे।
त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् ।
द्वापरे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्
तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा॥
अस्य श्री गणपतीकवचस्य मुद्गल ऋषिः अनुष्टुप् छन्दः श्री महागणपतिर्देवता आत्मर क्षार्थं पाठे विनियोगः
|
विनायकः शिखां पातु परमात्मा परात्परः। अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः॥

ललाटं काश्यपः पातु भूयुगं तु महोदरः| नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ ॥
जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः| वाचं विनायकः पातु दन्तानक्षतु दुर्मुखः॥
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः | गणेशस्तु मुखं कण्ठंपातु देवो गणञ्जयः॥
स्कन्धौ पातु गजस्कन्धःस्तनौ विघ्नविनाशनः| हृदयं गणनाथस्तु हेरम्बो जठरं महान् ॥
धराधरः पातु पार्वंपृष्ठं विघ्नहरः शुभः। लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः॥
गणक्रीडो जानुजंधे ऊरु मंगलमूर्तिमान् । एकदन्तो महाबुद्धिः पादौ गुल्फो सदाऽवतु॥
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः। अझ्गुलिश्च नखान्पातु पद्महस्तोऽरिनाशनः||
सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु । अनुक्तमपि यत्स्थानं धूमकेतुः सदाऽवतु ॥
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु । प्राच्या रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः॥
दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः | प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः ||
कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः| दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्या सु विघ्नहृत् ॥
राक्षसासुरवेतालग्रहभूतपिशाचतः। पाशाङ्कुशधरः पातु रजः सत्त्वं तमः स्मृतिम् ॥
ज्ञानं धर्मं च लक्ष्मी च लज्जां कीर्तिं दयां कुलम् । वपुर्धनं च धान्यं च गृहान्दारान्सुतान्सखीन् ||
सर्वायुधधरः पौत्रान्मयूरेशोऽवतात्सदा | कपिलोऽजाविकं पातु गवाश्वं विकटोऽवतु ॥
अथास्य फलश्रुतिः
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः। न भयं जायते तस्य यक्षरक्षः पिशाचतः॥
त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् । यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥
युद्धकाले पठेद्यस्तु विजयं प्राप्नुयाद् धुवम् | मारणोच्चाटनाकर्षस्तम्भमोहनकर्मणि ॥
सप्तवारं पठेद्यस्तु दिनानामेकविंशतिम् । तत्तत्फलमवाप्नोति साधको नात्र संशयः॥
एकविंशतिवारं च पठेत्तावत् दिनानि यः| कारागृहगतं सद्यो राज्ञा वध्यं च मोचयेत् ॥
राजदर्शनवेलायां पठेदेतत् त्रिवारतः। स राजानं वशं नीत्वा प्रकृतिं च सभां जयेत् ॥
इदं गणेशकवचं मुद्गलेन समीरितम् । कश्यपाय च तेनाथ माण्डव्याय महर्षये ॥
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् । न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥
सर्वरक्षाकरं सर्वमनःकामप्रपूरकम् । अनेनानस्य कृता रक्षा न बाधाऽस्य भवेत्क्वचित् ॥
राक्षसासुरवेतालदैत्यदानवसंभवा | सर्वारिष्टानि नश्यन्ति कवचस्यास्य धारणात् ॥
|| गणेश पुराणे गणेश कवच सम्पूर्ण ॥




-

Post a Comment

0 Comments