Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Shree ShIIlashtak Stotra- श्री शीतलाष्टक स्तोत्र

Shree ShIIlashtak Stotra- श्री शीतलाष्टक स्तोत्र




श्रीगणेशाय नमः॥
अस्य श्रीशीतलास्तोत्रस्य महादेव ऋषिः।
अनुष्टुप छन्दः। शीतला देवता।
लक्ष्मौर्बीजम् | भवानिशक्तिः
सर्वविस्फोटकनिवृत्तये जपे विनियोगः।
ईश्वर उवाच।
वन्देऽहं शीतला देवीं रासभस्थां दिगम्बराम् ।
मार्जनीकलशोपेतां शुर्पालं कृतमस्तकाम् || १ ||
वन्देऽहं शीतला देवी सर्वरोगभयापहाम।
यामासादय निवर्तेत विस्फोटकभयं महत् ||२||
शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः।
विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ||३||
यस्त्वामुदकमध्ये तु धृत्वा पूजयते नरः।
विस्फोटकभयं घोरं गृहै तस्य न जायते ||४||
शीतले ज्वरदग्धस्यं पूतिगन्धयुतस्य च |
प्रनष्ट्चक्षुषः पुंसस्त्वामीहुर्जीवनषिधम् ॥५॥
शीतले त जारीगान्नृणां हरसि दुत्स्यजान् ।
विस्फोटक विदीर्णानां त्वमेकाऽमृतवर्षिणी||६||
गलगण्डग्रहा रोगा ये चान्ये दारूंणा नृणाम् ।
त्वदनुध्यानमात्रेण शीतले यान्ति संक्षय॑म् ||७||
न मन्त्रो नौषधं तस्य पापरोगस्य विदयते।
त्वामेकां शीतले धात्री नान्यां पश्यामि देवताम् ॥८॥
मृणालतन्तुसद्दी नाभिहन्मध्यसंस्थिताम्।
यत्स्वां संचिन्तयेद्देवि तस्य मृत्युन जायते ||९||
अष्टकं शीतलादेव्या यो नरः प्रपठेत्सदा|
विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ १० ॥
श्रोतव्यं पठितव्यं च श्रद्धाभक्ति समन्वितैः।
उपसर्गविनाशाय परं स्वस्त्ययनं महत् ॥११॥
शीतले त्वं जगन्माता शीतले त्वं जगत्पिता|
शीतले त्वं जगद्धात्री शीतलायै नमो नमः||१२||
रासभो गर्दभश्चैव खरो वैशाखनन्दनः।
शीतलावाहनश्चैव दुर्वाकुन्दनिकृन्तनः[१३ ॥
एतानि खरनामानि शीतलायेंतु यः पठेतु |
तस्य देहे (गेहे) शिशूनां च शीतलारुन जायते ||१४||
शीतलाष्टकमेवेदं न देयं यस्य कस्यचित्।
दातव्यं च सदा तस्मै श्रद्धाभक्तियुताय वै||१५||
॥ अस्तु॥



Post a Comment

0 Comments