Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Paap Nashan Vishnu Stotram- समस्त पापनाशक विष्णु स्तोत्र

Paap Nashan Vishnu Stotram- समस्त पापनाशक विष्णु स्तोत्र




This is a very useful and beneficial mantra for destruction of all sins.

पुष्कर उवाच

परदारपरद्रव्य जीवहिंसादिके यदा।

प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा ॥

विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः।

नमामि विष्णुं चित्तस्थमहँकारगतिं हरिम् ॥

चित्तस्थमीशमव्यक्त मनन्तमपराजितम् ।

विष्णुमीड्यमशेषेण अनादिनिधनं विभुम् ॥


विष्णुश्चित्तगतो यन्मेविष्णुर्बुद्धिगतश्च यत् ।

यच्चाहन्कारगो विष्णुर्यव्दीष्णुमयिसंस्थितः॥

करोति कर्मभूतोऽसो स्थावरस्य चरस्य च |

तत् पापन्नाशमायातु तस्मिन्नेव हि चिन्तिते ॥

ध्यायो हरति यत् पापं स्वप्ने दृष्टस्तु भावनात |

तमुपेन्द्रमहँ विष्णुप्रैणतातिहरं हरिम् ॥


जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः|

हस्तावलम्बनं विष्णुं प्रणमामि परात्परम् ॥

सर्वेश्वरस्य विभो परमात्मन्नधोक्षज | (सर्वेश्वर)

हृषीकेष हृषीकेश हृषीकेश नमोस्तुते॥

नृसिंहानन्त गोविन्द भूतभावन केशव |

दुरुक्तं दुष्कृतं ध्यातं शमयाघन्नमोस्तुते॥

यन्मया चिन्तितं दुष्टं स्वचित्तवशवलिना |

अकार्यमहदत्युग्रन्तच्छमन्नय केशव ||

ब्रह्मण्यदेव गोविन्द परमार्थपरायण |

जगन्नाथ जगदद्यातः पापं प्रशमयाच्युत॥

यथापराहने सायाहने मध्याहने च तथा निशि|

कायेन मनसा वाचा कृतं पापमजानता ||


जानता च हृषिकेश पुण्डरीकाक्ष माधव |

नामत्रयोच्चारणतःस्वप्ने यातु मम क्षयम् ॥

शरीरं में हृषिकेश पुण्डरीकाक्ष माधव |

पापं प्रशमयाद्यत्वं वाक्कृतं मम माधव ||

यद्भुञ्जन्यत्स्त्वपंस्तिष्ठन गच्छन जायद यदास्थितः।

कृतवान पापमद्याहं कायेन मनसागिरा ||

यत स्वल्पमपि यत स्थूलं कुयोनिनरकाहम् ।

तद्यातु प्रशमंसर्व वासुदेवानु कीर्तनात ||

परं बहम परं धाम पवित्रं परमज यत |

तस्मिन् प्रकीर्तिते विष्णौ यत पापं तत प्रणश्यतु ॥

यत प्राप्य न निवर्तन्ते गन्धस्पर्शादि वर्जितम |

सूरयस्तत पदं विष्णोस्तत सर्वं शमयत्वधम ||


॥ फलश्रुतिः॥

पापप्रणाशनं स्तोत्रं यः पठेच्छृणुयादपि ।

शारीरैर्मानसैर्वाग्जैः कृतैः पापैः प्रमुच्यते ॥

सर्वपापग्रहादिभ्यो यातिविष्णोः परं पदम् ।

तस्मात्पापे कृते जप्यंस्तोत्रंसर्वाघमर्दनम ||

प्रायश्चित्तमघौघानां स्तोत्रं व्रतकृते वरम |

प्रायश्चितैः स्तोत्रजपैर्वृतैनश्यति पातकम ||

ततः कार्याणि संसिद्धयै तानि वै भुक्तिमुक्तये ||

॥ इति श्री अग्निमहापुराणे पापनाशन विष्णुःस्तोत्र सम्पूर्ण ॥




Post a Comment

0 Comments