Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Shri Chandrashtavinshati Naam Stotra-श्री चन्द्राष्टाविंशति नाम स्तोत्र

 Shri Chandrashtavinshati Naam Stotra-श्री चन्द्राष्टाविंशति नाम स्तोत्र



चन्द्रदेव के 20 नाम

चन्द्रग्रह नाम स्तोत्र

विनियोगः

ॐ अस्य श्री चन्द्राष्टाविंशति नाम स्तोत्रस्य गौतमऋषिः सोमोदेवता विराट छन्दः चन्द्र प्रीत्यर्थे

पाठे विनियोगः।

चन्द्रस्य श्रुणु नामानि शुभदानि महीपते |

यानि श्रुत्वा नरो दुःखान् मुच्यते नात्र संशय ||

सुधाकरश्च सोमश्च ग्लौरजः कुमुदप्रियः |

लोकप्रिय शुभ्रभानुश्चन्द्रमा रोहिणीपतिः ||

शशी हिमकरो राजा द्विजराजो निशाकरः |

आत्रेय इन्दुः शीतांशुरौषधीशः कलानिधिः ||

जैवात्रको रमाधाता क्षीरोदार्णवसम्भवः |

नक्षत्रनायकः शम्भुशिरश्चूडामाणिर्विभुः॥

तापहर्ता नभोदीपो नामान्येतानि यः पठेत् |

प्रत्यहं क्रियासंयुक्तस्तस्यपीड़ा विनश्यति ||

|| फलश्रुति ||

तुहिने च पठेद्यस्तु लभेत् सर्व समीहितम् |

गृहादीनां च सर्वेषां भवेच्चन्द्रबलं सदा ||

|| श्री चन्द्राष्टाविंशति नाम स्तोत्र सम्पूर्ण ||





Post a Comment

0 Comments