Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Shree Bal Raksha Stotra-श्री बालरक्षा स्तोत्र

 Shree Bal Raksha Stotra-श्री बालरक्षा स्तोत्र



 Shree Bal Raksha Stotra-श्री बालरक्षा स्तोत्र

अव्यादजोऽधिर्मणिमांस्तव जान्वथोरु यज्ञोऽच्युतः कटितटं जठरं हयास्यः।

हत्केशवस्त्वदुर ईश इनस्तु कण्ठं विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥

चयगतः सहगदो हरिरस्तु पश्चात्वपार्श्वयोर्धनुरसी मधुहाजनश्च |

कोणेषु शङ्ख उरुगाय उपर्युपेन्द्रस्तायः क्षितौ हलधरः पुरुषः समन्तात् ॥

इन्द्रियाणि हृषीकेशः प्राणान्नारायणोऽवतु ।

श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ||

पृश्निगर्भश्च ते बुद्धिमात्मानं भगवान्परः।

क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥

वज़न्तमव्याद्वैकुण्ठो आसिनं त्वां श्रियः पतिः।

भुन्जानं यज्ञभुक्पातु सर्वग्रहभयङ्करः॥

डाकिन्यो यातुधान्यश्च कूष्माण्डा येऽर्भकबहाः।

भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः॥

कोटरारेवती ज्येष्ठापूतनामातृकादयः।

उन्मादा ये हयपस्मारा देहप्राणेन्द्रियगुहः॥

स्वप्नद्रष्टा महोत्पाता वृद्धबालग्रहाश्च ये|

सर्वे नश्यन्तु ते विष्णोर्नामग्रहण भीरवः॥

॥ इति श्रीमद्भागवते दशमस्कन्धे गोपीकृतबालरक्षा सम्पूर्णं ||







Post a Comment

0 Comments