Work From Home Opportubity

Responsive Advertisement

Ticker

6/recent/ticker-posts

Yoni Kavach-योनि कवचम्

Yoni Kavach-योनि कवचम्


Yoni Kavach-योनि कवचम्


विनियोगः
अस्य श्री योनीकवचस्य गुप्त ऋषिः,
कुनटा उन्दोराज, विघ्नोत्पादविनाशे पाठे विनियोगः |
ह्रीं योनिमें सदापातु स्वाहा विघ्ननाशिनी।
शत्रुनाशत्मिका योनि ! सदा मां रक्ष सागरे ||
ब्रहमात्मिका महायोनिः सर्वान कामान् प्ररक्षतु।
राजदुबारे महाघोरे कत्री योनि सर्वदाऽवतु ॥
हूमात्मिका सदा देवी योनिरुपा जगन्मयो|
सर्वाङ्गे रक्ष नित्यं सभायां राजवेश्मनि॥
वेदात्मिका सदा योनिर्वेदरुपा सरस्वती|
कीर्ति श्री कान्तिमारोग्यं पुत्रपौत्रादिकं तथा ||
रक्ष रक्ष महाघोरे सर्वसिद्धि प्रदायिनी।
रजोयोगात्मिका योनि सर्वत्र मां सदाऽवतू॥
॥ फलश्रुति ||
इति ते कथितं देवि कवचं सर्वसिद्धिदम् ।
त्रिसन्ध्यं यः पठेन्नित्यं रजोपद्रवनाशकृत् ॥
सभायां वाक्पतिश्चैव राजवेश्मनि राजवत् ।
सर्वत्र जयामाप्नोति कवचस्य जन हि॥
श्रीयोन्यासङ्गमे देवि पठेदेनमनन्य धीः।
स एव सर्वसिद्धिशो नात्र कार्या विचारणा ||
मातृकाक्षर सम्पुटैः कृत्वा यदि पठेन्नरः।
भुञ्जते विपुत्रान् भोगान् दुर्गया सह मोदते॥
अतिगुह्यतम देवि सर्वे धर्म उत्तमं ।
भूर्जे वा तानपत्रेवा लिखित्वा धारये यदि|
हरिचन्दन मिश्रेण रोचयेत् कुंकुमेन च |
शिखायामथवा कण्ठे सोऽपीश्वरों न संशयः॥
॥ इति शक्तिकागन सर्वस्वे हरगौरी संवादे योनि कवचम् ||



Post a Comment

0 Comments